शङ्कां विभजते -
स्यादेतदिति ।
अनैकान्तिके शङ्कितेऽपि नार्थापत्तेरुत्थानमित्युत्तरं व्याचष्टे -
तथापीति ।
अस्मत्पक्षे चक्षुरादिस्वानुभवसिद्धमेवाधिष्ठीयते । अतो न व्यभिचारशङ्केत्यर्थः ।
किञ्च करणग्रामवच्चेतनाधिष्ठितत्वं प्रधानादेरशक्यं वक्तुं वैषम्यादित्याह -
भोगादीति ।
आदिशब्दात्तत्कारणरूपदर्शनादि गृहीतम् । करणग्रामप्रयुक्तं हि रूपदर्शनादि तत्फलं च भोगश्चेतने दृश्यते, तेन तस्य तेनाधिष्ठितत्वं प्रधानादिकृताश्च भोगादयो नेश्वरस्य केनापीष्यन्ते । तथाच करणग्रामवैलक्षण्यात्प्रधानादेर्न चेतनाधिष्ठितत्वमित्यनुत्थानमर्थापत्तेरित्यर्थः ।
विपक्षे दोषमाह -
करणेति ।
यदि प्रधानादेरिष्टं करणग्रामसाम्यं तर्हि संसारिणां तत्कृतभोगादिवदीशस्यापि प्रधानादिकृता भोगादयः स्युः, ततश्चानीश्वरत्वापत्तेर्नार्थापत्त्या तद्धीरित्यर्थः ।