सूत्रद्वयस्य व्याख्यान्तरमाह -
अन्यथा वेति ।
ईश्वरस्याधिष्ठानं शरीरं, तदयोगात्प्रवर्तकत्वासिद्धेर्न कार्यानुपपत्त्या तद्धीरित्याह -
अधिष्ठानेति ।
तद्व्याकरोति -
इतश्चेति ।
चेतनस्य प्रवर्तकत्वं सशरीरत्वव्याप्तमन्वयव्यतिरेकाभ्यां वदन्नितःशब्दार्थं स्फुटयति -
साधिष्ठानो हीति ।
विमतं शरीरादिमत्पूर्वकं, कार्यत्वात् , घटवदिति व्याप्तिफलमाह -
अतश्चेति ।
लीलामयं शरीरमीश्वरस्यापि सिद्धमिति सिद्धसाध्यतेत्याशङ्क्याह -
नचेति ।
तर्हि कार्यमपि शरीरादिमत्पूर्वकं मा भूदित्याशङ्क्याह -
निरधिष्ठानत्वे चेति ।
अनीश्वरस्यैव सृष्ट्युत्तरभावि शरीरमीश्वरस्य प्रागपीच्छानिर्मितं भविष्यतीत्याशङ्क्याह -
करणवदिति ।
चोद्यं व्याकरोति -
अथेति ।
न तावदीश्वरस्येच्छानिर्मिते प्राचीने देहे किञ्चिन्मानं, तथापि तदङ्गीकारे देहित्वादीश्वरत्वासिद्धिरित्युत्तरमाह -
एवमपीति ।
देहित्वेऽपि किमित्यनीश्वरत्वं, तत्राह -
सशरीरत्वे हीति ॥ ४० ॥