ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
उत्पत्त्यसम्भवात् ॥ ४२ ॥
येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणमीश्वरोऽभिमतः, तेषां पक्षः प्रत्याख्यातःयेषां पुनः प्रकृतिश्चाधिष्ठाता उभयात्मकं कारणमीश्वरोऽभिमतः, तेषां पक्षः प्रत्याख्यायतेननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ्निर्धारितःप्रकृतिश्चाधिष्ठाता चेतिश्रुत्यनुसारिणी स्मृतिः प्रमाणमिति स्थितिःतत्कस्य हेतोरेष पक्षः प्रत्याचिख्यासित इतिउच्यतेयद्यप्येवंजातीयकोंऽशः समानत्वान्न विसंवादगोचरो भवति, अस्ति त्वंशान्तरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारम्भः

यद्वा पञ्चपदार्थवादिनि निरस्ते चतुर्व्यूहवादिनं निरस्यति -

उत्पत्तीति ।

वृत्तमनूद्याधिकरणतात्पर्यमाह -

येषामिति ।

अधिकरणारम्भमाक्षिपति -

नन्विति ।

तथापि भागवती स्मृतिरप्रमाणत्वादनादर्तव्येति वक्तुमधिकरणमित्याशङ्क्याह -

श्रुतीति ।

तत्प्रामाण्ये फलितमाह -

तदिति ।

वेदाविरुद्धांशमुपेत्य विरुद्धांशनिरासायाधिकरणमित्याह -

उच्यत इति ।

समानत्वादित्यत्र श्रुतिस्मृत्योरिति शेषः ।