जीवाभिन्नाद्ब्रह्मणो जगत्सर्गवादी समन्वयो जीवोत्पत्त्यादिविषयपञ्चरात्रराद्धान्तेन विरुध्यते न वेति तत्प्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमाह -
तत्रेति ।
भागवतमतनिरासद्वारा समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे भागवतमतस्य मानत्वात्तद्विरोधे समन्वयासिद्धेरभेदवादासिद्धिः । सिद्धान्ते तस्य भ्रमत्वात्तद्विरोधस्याभासतया समन्वयसिद्ध्या तत्सिद्धिः । तत्र मूर्त्यन्तरं निराकर्तुं वासुदेव इत्युक्तम् । तस्य सावयवत्वं निरस्यति -
निरञ्जनेति ।
कथं तर्हि शास्त्रे मूर्तिभेदः, तत्राह -
स इति ।
व्यूहेषु भगवतोऽवस्थाविशेषेष्ववान्तरभेदमाह -
वासुदेव इति ।
तेष्वेव प्रकृतिविकृतित्वमाह -
तेषामिति ।
सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह -
तमिति ।
यथोक्तव्यूहवन्तं सर्वप्रकृतिभूतं निरञ्जनज्ञानरूपं परमात्मानमिति यावत् । वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् । पूजाद्रव्याणामर्जनमुपादानम् । इज्या पूजा । स्वाध्यायो जपः । योगो ध्यानम् ।
परपक्षमनुभाष्य तस्मिन्नविरुद्धमंशमाह -
तत्रेति ।
तदनिरासे हेतुमाह -
स इति ।
अविरुद्धमंशान्तरमाह -
यदपीति ।
तदनिषेधे हेतुमाह -
श्रुतीति ।
‘समाहितः श्रद्धावित्तो भूत्वा’ इत्याद्या श्रुतिः । ‘मत्कर्मकृन्मत्परमो मद्भक्तः’ इत्याद्या स्मृतिः ।
निरस्यांशमाह -
यदिति ।
तत्र सूत्रमवतार्य व्याकरोति -
अत्रेति ।
हेतुं विवृणोति -
उत्पत्तीति ।
आदिशब्देनाकृताभ्यागमकृतप्रणाशस्वर्गनरकापवर्गाभावा गृह्यन्ते ।
जीवस्योत्पत्तिमत्त्वे दोषान्तरमाह -
ततश्चेति ।
कार्यस्यापि जीवस्य कारणभगवदाप्तिमोक्षे कानुपपत्तिः, तत्राह -
कारणेति ।
इतश्च न जीवोत्पत्तिरित्याह -
प्रतिषेधिष्यतीति ।
जीवोत्पत्त्ययोगे तदर्थपञ्चरात्रराद्धान्तस्य भ्रान्तत्वान्न तद्विरोधः समन्वयस्येत्युपसंहरति -
तस्मादिति ॥ ४२ ॥