ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
उत्पत्त्यसम्भवात् ॥ ४२ ॥
तत्र भागवता मन्यतेभगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वम् चतुर्धात्मानं प्रविभज्य प्रतिष्ठितःवासुदेवव्यूहरूपेण, सङ्कर्षणव्यूहरूपेण, प्रद्युम्नव्यूहरूपेण, अनिरुद्धव्यूहरूपेण वासुदेवो नाम परमात्मा उच्यते; सङ्कर्षणो नाम जीवः; प्रद्युम्नो नाम मनः; अनिरुद्धो नाम अहंकारःतेषां वासुदेवः परा प्रकृतिः, इतरे सङ्कर्षणादयः कार्यम्तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इतितत्र यत्तावदुच्यतेयोऽसौ नारायणः परोऽव्यक्तात्प्रसिद्धः परमात्मा सर्वात्मा, आत्मनात्मानमनेकधा व्यूह्यावस्थित इतितन्न निराक्रियते, एकधा भवति त्रिधा भवति’ (छा. उ. ७ । २६ । २) इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधाभावस्याधिगतत्वात्यदपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते, तदपि प्रतिषिध्यते, श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात्यत्पुनरिदमुच्यतेवासुदेवात्सङ्कर्षण उत्पद्यते, सङ्कर्षणाच्च प्रद्युम्नः, प्रद्युम्नाच्चानिरुद्ध इति, अत्र ब्रूमः वासुदेवसंज्ञकात्परमात्मनः सङ्कर्षणसंज्ञकस्य जीवस्योत्पत्तिः सम्भवति, अनित्यत्वादिदोषप्रसङ्गात्उत्पत्तिमत्त्वे हि जीवस्य अनित्यत्वादयो दोषाः प्रसज्येरन्ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् , कारणप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात्प्रतिषेधिष्यति आचार्यो जीवस्योत्पत्तिम्नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः’ (ब्र. सू. २ । ३ । १७) इतितस्मादसङ्गतैषा कल्पना ॥ ४२ ॥

जीवाभिन्नाद्ब्रह्मणो जगत्सर्गवादी समन्वयो जीवोत्पत्त्यादिविषयपञ्चरात्रराद्धान्तेन विरुध्यते न वेति तत्प्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमाह -

तत्रेति ।

भागवतमतनिरासद्वारा समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे भागवतमतस्य मानत्वात्तद्विरोधे समन्वयासिद्धेरभेदवादासिद्धिः । सिद्धान्ते तस्य भ्रमत्वात्तद्विरोधस्याभासतया समन्वयसिद्ध्या तत्सिद्धिः । तत्र मूर्त्यन्तरं निराकर्तुं वासुदेव इत्युक्तम् । तस्य सावयवत्वं निरस्यति -

निरञ्जनेति ।

कथं तर्हि शास्त्रे मूर्तिभेदः, तत्राह -

स इति ।

व्यूहेषु भगवतोऽवस्थाविशेषेष्ववान्तरभेदमाह -

वासुदेव इति ।

तेष्वेव प्रकृतिविकृतित्वमाह -

तेषामिति ।

सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह -

तमिति ।

यथोक्तव्यूहवन्तं सर्वप्रकृतिभूतं निरञ्जनज्ञानरूपं परमात्मानमिति यावत् । वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् । पूजाद्रव्याणामर्जनमुपादानम् । इज्या पूजा । स्वाध्यायो जपः । योगो ध्यानम् ।

परपक्षमनुभाष्य तस्मिन्नविरुद्धमंशमाह -

तत्रेति ।

तदनिरासे हेतुमाह -

स इति ।

अविरुद्धमंशान्तरमाह -

यदपीति ।

तदनिषेधे हेतुमाह -

श्रुतीति ।

‘समाहितः श्रद्धावित्तो भूत्वा’ इत्याद्या श्रुतिः । ‘मत्कर्मकृन्मत्परमो मद्भक्तः’ इत्याद्या स्मृतिः ।

निरस्यांशमाह -

यदिति ।

तत्र सूत्रमवतार्य व्याकरोति -

अत्रेति ।

हेतुं विवृणोति -

उत्पत्तीति ।

आदिशब्देनाकृताभ्यागमकृतप्रणाशस्वर्गनरकापवर्गाभावा गृह्यन्ते ।

जीवस्योत्पत्तिमत्त्वे दोषान्तरमाह -

ततश्चेति ।

कार्यस्यापि जीवस्य कारणभगवदाप्तिमोक्षे कानुपपत्तिः, तत्राह -

कारणेति ।

इतश्च न जीवोत्पत्तिरित्याह -

प्रतिषेधिष्यतीति ।

जीवोत्पत्त्ययोगे तदर्थपञ्चरात्रराद्धान्तस्य भ्रान्तत्वान्न तद्विरोधः समन्वयस्येत्युपसंहरति -

तस्मादिति ॥ ४२ ॥