ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते । केचिदाकाशस्योत्पत्तिमामनन्ति, केचिन्न । तथा केचिद्वायोरुत्पत्तिमामनन्ति, केचिन्न । एवं जीवस्य प्राणानां च । एवमेव क्रमादिद्वारकोऽपि विप्रतिषेधः श्रुत्यन्तरेषूपलक्ष्यते । विप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितम् । तद्वत्स्वपक्षस्यापि विप्रतिषेधादेवानपेक्षितत्वमाशङ्क्येत — इत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः प्रपञ्च आरभ्यते । तदर्थनिर्मलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव । तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते —

आकाशोत्पत्त्यनुत्पत्तिश्रुत्योर्मिथो विरोधादप्रामाण्ये शङ्किते तन्निरासेन समन्वयदृढीकरणादस्य पादादिसङ्गतिरित्यभिप्रेत्य पूर्वोत्तरपादसङ्गतिं व्यक्तीकुर्वन्नापाततः सृष्टिश्रुतिविमतिं दर्शयति -

वेदान्तेष्विति ।

तत्र तत्रेति सृष्टिप्रकरणोक्तिः । तासां भिन्नप्रस्थानत्वमेव प्रकटयन्प्रथममाकाशोत्पत्त्यनुत्पत्तिभ्यां तैत्तिरीयच्छान्दोग्यश्रुत्योर्विमतिमाह -

केचिदिति ।

नभोवद्वायोरप्युत्पत्त्यनुत्पत्तिभ्यामपि तयोरेवास्ति विमतिरित्याह -

तथेति ।

न केवलं भूतविषयसृष्टिश्रुतिविमतिरपि तु भोक्तृभोगोपकरणविषयापि सास्तीत्याह -

एवमिति ।

यथा नभसो वायोश्चोत्पत्तिमधीयते तैत्तिरीयास्तथा जीवस्य ‘सर्व एत आत्मानो व्युच्चरन्ति’ इति जन्मामनन्ति माध्यन्दिना नैवमितरे । तथा प्राणानाम् ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इत्युत्पत्ति पठन्त्याथर्वणा नैवमन्ये । अतोऽस्ति धर्मिणि विमतिरित्यर्थः ।

धर्मद्वारापि विगानमाह -

एवमेवेति ।

क्रमादीत्यादिशब्देनाक्रमसङ्ख्ये गृह्येते ।

श्रुत्यन्तरेषु ।

श्रुतिविशेषेष्विति यावत् ।

सृष्टिश्रुतीनामस्वार्थपरत्वान्मिथो विरोधेऽपि तात्पर्यवद्वाक्यप्रामाण्यादस्मत्पक्षसिद्धिरित्याशङ्क्याह -

विप्रतिषेधाच्चेति ।

सर्वत्र परपक्षेषु स्वोक्तिविरोधाभावादत्र श्रुतिविरोधो विवक्षितः । स्वपक्षो ब्रह्मकारणवादः । विप्रतिषेधश्रुतिनामेवान्योन्यमिति द्रष्टव्यम् ।

सृष्टिश्रुतिष्वापातिकविरोधोक्त्या तत्फलमुक्त्वानन्तरपादाववतारयति -

इत्यत इति ।

तदर्थनिर्मलत्वमर्थाभासनिवृत्त्या सम्यगर्थधीः । प्रपञ्चोऽनन्तरपादद्वयम् ।

ननु मुमुक्षूणामुक्तसमन्वयादेव तत्त्वधीलाभात्कृतमेतन्निर्मलत्वेनेति, तत्राह -

तदर्थेति ।

वेदैकदेशस्य विरोधादप्रामाण्ये तदेकदेशान्तरस्यापि तथैवाप्रामाण्यशङ्कया तत्समन्वयात्तत्त्वज्ञानासिद्धेर्ब्रह्मकारणपक्षस्यानपेक्षणीयत्वशङ्कानिवृत्तिस्तदर्थनिर्मलत्वे फलतीत्यर्थः ।

इत्थं पादद्वयसम्बन्धे स्थिते भूतभोक्तृसृष्ट्यादिश्रुतिविवादापवादार्थे च तृतीये पादे सत्याद्याधिकरणतात्पर्यमाह -

तत्रेति ।

आकाशोत्पत्त्यनुत्पत्तिवादिवाक्ययोरनेकवाक्यत्वैकवाक्यत्वाभ्यां मिथो विरोधसन्देहे विरोधनिरासेनाविरोधं संसाध्य समन्वयदार्ढ्यमत्र विवक्षितम् । सर्वेषु चाधिकरणेषु पादद्वयगतेषु पूर्वपक्षेषु श्रुतीनां विरोधादप्रामाण्यं, सिद्धान्ते तासामविरोधात्प्रामाण्यं फलम् । अत्र चाद्येऽधिकरणे श्रुत्योर्मिथोविरोधादप्रामाण्ये वियदादिकारणे ब्रह्मणि समन्वयासिद्धिरेकत्र, अन्यत्र तयोरेकवाक्यतया विरोधाभावात्प्रामाण्यसिद्धेस्तत्सिद्धिरिति भावः ।