ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न वियदश्रुतेः ॥ १ ॥

अतिक्रान्ते पादे समन्वयस्थापनाय परपक्षाणां भ्रान्तिमूलत्वमुक्तम् । इदानीमपि समन्वयस्थित्यै भूतभोक्तृविषयसृष्ट्यादिश्रुतिविगानं निराक्रियते । तत्रानुत्पत्तिप्रसङ्गेन वियतोऽपि तदसम्भवमाशङ्क्य परिहरन्नादावेकदेशिमतमाह -

न वियदिति ।