मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
अस्ति तु ॥ २ ॥
तुशब्दः
पक्षान्तरपरिग्रहे
।
मा
नामाकाशस्य
छान्दोग्ये
भूदुत्पत्तिः
।
श्रुत्यन्तरे
त्वस्ति
।
तैत्तिरीयका
हि
समामनन्ति
—
‘
सत्यं
ज्ञानमनन्तं
ब्रह्म
’ (तै. उ. २ । १ । १)
इति
प्रकृत्य
,
‘
तस्माद्वा
एतस्मादात्मन
आकाशः
सम्भूतः
’ (तै. उ. २ । १ । १)
इति
।
ततश्च
श्रुत्योर्विप्रतिषेधः
—
क्वचित्तेजःप्रमुखा
सृष्टिः
,
क्वचिदाकाशप्रमुखेति
।
नन्वेकवाक्यता
अनयोः
श्रुत्योर्युक्ता
।
सत्यं
सा
युक्ता
,
न
तु
सा
अवगन्तुं
शक्यते
।
कुतः
?
‘
तत्तेजोऽसृजत
’ (छा. उ. ६ । २ । ३)
इति
सकृच्छ्रुतस्य
स्रष्टुः
स्रष्टव्यद्वयेन
सम्बन्धानुपपत्तेः
— ‘
तत्तेजोऽसृजत
’ ‘
तदाकाशमसृजत
’
इति
।
ननु
सकृच्छ्रु
तस्यापि
कर्तुः
कर्तव्यद्वयेन
सम्बन्धो
दृश्यते
—
यथा
सूपं
पक्त्वा
ओदनं
पचतीति
,
एवं
तदाकाशं
सृष्ट्वा
तत्तेजोऽसृजत
इति
योजयिष्यामि
।
नैवं
युज्यते
;
प्रथमजत्वं
हि
छान्दोग्ये
तेजसोऽवगम्यते
;
तैत्तिरीयके
च
आकाशस्य
।
न
च
उभयोः
प्रथमजत्वं
सम्भवति
।
एतेन
इतरश्रुत्यक्षरविरोधोऽपि
व्याख्यातः
—
‘
तस्माद्
वा
एतस्मादात्मन
आकाशः
सम्भूतः
’ (तै. उ. २ । १ । १)
इत्यत्रापि
—
तस्मादाकाशः
सम्भूतः
,
तस्मात्तेजः
सम्भूतम्
—
इति
सकृच्छ्रुतस्यापादानस्य
सम्भवनस्य
च
वियत्तेजोभ्यां
युगपत्सम्बन्धानुपपत्तेः
,
‘
वायो
रग्निः
’ (तै. उ. २ । १ । १)
इति
च
पृथगाम्नानात्
॥ २ ॥
अस्ति त्विति
;
पूर्वपक्षयति -
अस्ति त्विति ।