ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अस्ति तु ॥ २ ॥
तुशब्दः पक्षान्तरपरिग्रहेमा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिःश्रुत्यन्तरे त्वस्तितैत्तिरीयका हि समामनन्तिसत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति प्रकृत्य, तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इतिततश्च श्रुत्योर्विप्रतिषेधःक्वचित्तेजःप्रमुखा सृष्टिः, क्वचिदाकाशप्रमुखेतिनन्वेकवाक्यता अनयोः श्रुत्योर्युक्तासत्यं सा युक्ता, तु सा अवगन्तुं शक्यतेकुतः ? तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन सम्बन्धानुपपत्तेः — ‘तत्तेजोऽसृजत’ ‘तदाकाशमसृजतइतिननु सकृच्छ्रुतस्यापि कर्तुः कर्तव्यद्वयेन सम्बन्धो दृश्यतेयथा सूपं पक्त्वा ओदनं पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजोऽसृजत इति योजयिष्यामिनैवं युज्यते; प्रथमजत्वं हि छान्दोग्ये तेजसोऽवगम्यते; तैत्तिरीयके आकाशस्य उभयोः प्रथमजत्वं सम्भवतिएतेन इतरश्रुत्यक्षरविरोधोऽपि व्याख्यातःतस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यत्रापितस्मादाकाशः सम्भूतः, तस्मात्तेजः सम्भूतम्इति सकृच्छ्रुतस्यापादानस्य सम्भवनस्य वियत्तेजोभ्यां युगपत्सम्बन्धानुपपत्तेः, वायोरग्निः’ (तै. उ. २ । १ । १) इति पृथगाम्नानात् ॥ २ ॥

सूत्रं व्याकुर्वन्पूर्वपक्षं विवृणोति -

तुशब्द इति ।

श्रुत्यन्तरे त्वाकाशस्योत्पत्तिरस्तीत्युक्तं, तदेव व्यनक्ति -

तैत्तिरीयका हीति ।

सर्वनामार्थज्ञापनार्थं पूर्ववाक्यानुक्रमणम् । श्रुत्योराकाशोत्पत्त्यनुत्पत्तिवादित्वे फलितमाह -

ततश्चेति ।

प्रामाण्यस्यौत्सर्गिकत्वाद्विरोधेनाप्रामाण्यायोगादेकवाक्यतया कथञ्चित्प्रमाण्यमेष्टव्यमिति शङ्कते -

नन्विति ।

सम्भवत्येकवाक्यत्वे तद्भेदो नेष्यते मिथो विरुद्धयोः श्रुत्योर्नैकवाक्यतेति परिहरति -

सत्यमिति ।

तदाकाशं सृष्ट्वा तेजोऽसृजतेत्येकवाक्यत्वं ज्ञातुं शक्यमिति शङ्कते -

कुत इति ।

छान्दोग्यानुसारेणैकवाक्यत्वायोगं दर्शयति -

तत्तेज इति ।

एकवाक्यतावादी दृष्टान्तेन शङ्कते -

नन्विति ।

विप्रतिषेधवादी दूषयति -

नैवमिति ।

किमिह व्यापारः सूपादिपाकवत्किं वा युगपदेकस्माद्बीजान्मूलाङ्कुरोत्पत्तिवत्तदक्रमः । नाद्यः, द्वयोः प्रथमजत्वश्रुतिविरोधादित्याह -

प्रथमेति ।

न द्वितीयः, पाठक्रमात्क्रमसृष्टेरिष्टत्वादित्याह -

न चेति ।

छान्दोग्यानुसारेणैकवाक्यताऽयोगमुक्त्वा तैत्तिरीयानुसारेणापि तदयोगमाह -

एतेनेति ।

एतच्छब्दार्थमेव स्फुटयति -

तस्मादित्यादिना ।

इतश्च नैकवाक्यतेत्याह -

वायोरिति ।

छान्दोग्ये हि सदुपादानं तेजसो निर्दिश्यते । तैत्तिरीये त्वात्मनः सच्छब्दवाच्यादन्यो वायुस्तदुपादानमाम्नायते, तन्नैकवाक्यतेत्यर्थः ॥ २ ॥