मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥
इदं
पदोत्तरं
सूत्रम्
।
स्यादेतत्
।
कथं
पुनरेकस्य
सम्भूतशब्दस्य
‘
तस्माद्वा
एतस्मादात्मन
आकाशः
सम्भूतः
’ (तै. उ. २ । १ । १)
इत्यस्मिन्नधिकारे
परेषु
तेजःप्रभृतिष्वनुवर्तमानस्य
मुख्यत्वं
सम्भवति
,
आकाशे
च
गौणत्वमिति
।
अत
उत्तरमुच्यते
—
स्याच्चै
कस्यापि
सम्भूतशब्दस्य
विषयविशेषवशाद्गौणो
मुख्यश्च
प्रयोगः
—
ब्रह्मशब्दवत्
;
यथैकस्यापि
ब्रह्मशब्दस्य
‘
तपसा
ब्रह्म
विजिज्ञासस्व
तपो
ब्रह्म
’ (तै. उ. ३ । २ । १)
इत्यस्मिन्नधिकारेऽन्नादिषु
गौणः
प्रयोगः
,
आनन्दे
च
मुख्यः
।
यथा
च
तपसि
ब्रह्मविज्ञानसाधने
ब्रह्मशब्दो
भक्त्या
प्रयुज्यते
,
अञ्जसा
तु
विज्ञेये
ब्रह्मणि
—
तद्वत्
।
कथं
पुनर
नुत्पत्तौ
नभसः
‘
एकमेवाद्वितीयम्
’ (छा. उ. ६ । २ । १)
इतीयं
प्रतिज्ञा
समर्थ्यते
?
ननु
नभसा
द्वितीयेन
सद्वितीयं
ब्रह्म
प्राप्नोति
।
कथं
च
ब्रह्मणि
विदिते
सर्वं
विदितं
स्यादिति
,
तदुच्यते
— ‘
एकमेव
’
इति
तावत्स्वकार्यापेक्षयोपपद्यते
।
यथा
लोके
कश्चित्कुम्भकारकुले
पूर्वेद्युर्मृद्दण्डचक्रादीनि
उपलभ्य
अपरेद्युश्च
नानाविधान्यमत्राणि
प्रसारितान्युपलभ्य
ब्रूयात्
— ‘
मृदेवैकाकिनी
पूर्वेद्युरासीत्
’
इति
,
स
च
तयावधारणया
मृत्कार्यजातमेव
पूर्वेद्युर्नासीदित्यभिप्रेयात्
,
न
दण्डचक्रादि
—
तद्वद
द्वितीयश्रुतिर
धिष्ठात्रन्तरं
वारयति
—
यथा
मृदोऽमत्रप्रकृतेः
कुम्भकारोऽधिष्ठाता
दृश्यते
,
नैवं
ब्रह्मणो
जगत्प्रकृतेरन्योऽधिष्ठाता
अस्तीति
।
न
च
नभसापि
द्वितीयेन
सद्वितीयं
ब्रह्म
प्रसज्यते
।
लक्षणान्यत्वनिमित्तं
हि
नानात्वम्
।
न
च
प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति
,
क्षीरोदकयोरिव
संसृष्टयोः
,
व्यापित्वामूर्तत्वादिधर्मसामान्यात्
।
सर्गकाले
तु
ब्रह्म
जगदुत्पादयितुं
यतते
,
स्तिमितमितरत्तिष्ठति
,
तेनान्यत्वमवसीयते
।
तथा
च
‘
आकाशशरीरं
ब्रह्म
’ (तै. उ. १ । ६ । २)
इत्यादिश्रुतिभ्योऽपि
ब्रह्माकाशयोरभेदोपचारसिद्धिः
।
अत
एव
च
ब्रह्मविज्ञानेन
सर्वविज्ञानसिद्धिः
।
अपि
च
सर्वं
कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते
,
ब्रह्मणा
च
अव्यतिरिक्तदेशकालमेवाकाशं
भवतीत्यतो
ब्रह्मणा
तत्कार्येण
च
विज्ञातेन
सह
विज्ञातमेवाकाशं
भवति
—
यथा
क्षीरपूर्णे
घटे
कतिचिदब्बिन्दवः
प्रक्षिप्ताः
सन्तः
क्षीरग्रहणेनैव
गृहीता
भवन्ति
;
न
हि
क्षीरग्रहणादब्बिन्दुग्रहणं
परिशिष्यते
;
एवं
ब्रह्मणा
तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वात्
गृहीतमेव
ब्रह्मग्रहणेन
नभो
भवति
।
तस्माद्भाक्तं
नभसः
सम्भवश्रवणमिति
॥ ५ ॥
स्याच्चेति
;
सम्भूतशब्दमधिकृत्य सम्भाविताशङ्कामुच्छिनत्ति -
स्याच्चेति ।