सूत्रं व्याकुर्वन्प्रतिज्ञास्वरूपमाह -
येनेति ।
प्रतिवाक्यमितिशब्दोपादानं शाखाभेदख्यापनार्थम् । तस्या विवक्षितत्वसिद्ध्यर्थं विशिनष्टि -
प्रतिवेदान्तमिति ।
सर्वस्य ब्रह्ममात्रत्वप्रयुक्त्या प्रतिज्ञानुपरोधं साधयति -
तस्या इति ।
अत एव ब्रह्मविज्ञानेनेत्यादिना पूर्वोक्तन्यायेन व्यतिरेकेऽपि प्रतिज्ञा सिध्यति चेत्किमव्यतिरेकेणेत्याशङ्क्याह -
व्यतिरेके हीति ।
तदुत्पत्तिस्थितिलयत्वेन तदभेदादेकविज्ञानेन सर्वविज्ञानं वक्तव्यं नान्यथा तन्मुख्यत्वम् । सम्भवति मुख्यत्वे कुतस्तदौपचारिकतेत्यर्थः ।
ननु प्रतिज्ञा सर्वस्य ब्रह्मणि कल्पितत्वेनोपपद्यते, न तदुत्पत्त्याद्यपेक्षते, तत्र कल्पितत्वमन्तरेणाविद्यातत्कार्ययोस्तदुत्पत्त्याद्यभावादित्याशङ्क्याविद्यातत्सम्बन्धातिरिक्तत्वे सति तदुत्पत्त्याद्यतिरेकेण तत्र कल्पितत्वासिद्धेर्मैवमित्याह -
स चेति ।
अविशिष्टं सूत्रावयवं व्याचष्टे -
शब्देभ्यश्चेति ।
प्रकृतेर्विकाराणामव्यतिरेक एव न्यायस्तेनैवेति यावत् ।
शब्दानेवोदाहरति -
तथा हीति ।
सदेवेत्यादिशब्दानां प्रतिज्ञाविषयत्वाभावान्न सा तत्र विवक्षितेत्याशङ्क्याह -
तत्साधनायेति ।
शब्दानां प्रतिज्ञापरत्वेऽपि कथमाकाशस्य ब्रह्मकार्यतेत्याशङ्क्याह -
तद्यदीति ।
प्रतिज्ञाहानिमनुमोदमानं प्रत्याह -
नचेति ।
किञ्च प्रतिज्ञा चेदियमेका स्यात्तदा कथञ्चिदविवक्षिता शङ्क्येत, तास्तु भूयस्यो युक्तिसहिताश्च गम्यन्ते, तन्नाविवक्षितत्वशङ्केत्याह -
तथा हीति ।
तेन तेन दृष्टान्तेन । दुन्दुभिशङ्खवीणामृदादिनेति यावत् ।
ते ते शब्दा इत्युक्तं व्यनक्ति -
इदमिति ।
श्रौतप्रतिज्ञासामर्थ्यसिद्धमुपसंहरति -
तस्मादिति ।