स्वपक्षसाधकं प्रमाणमुक्त्वा छान्दोग्यानुसारेण परोक्तमनुवदति -
यदुक्तमिति ।
तैत्तिरीयकश्रुत्यनुरोधेन परिहरति -
तदयुक्तमिति ।
एकदेशिनि दूषिते पूर्वपक्षी स्वपक्षे श्रुतीनां मिथो विरोधमुक्तं स्मारयति -
सत्यमिति ।
विरुद्धत्वेनाप्रामाण्याङ्गीकारादेकवाक्यतया प्रामाण्यमेवाङ्गीकर्तुं युक्तमित्याह -
नेत्यादिना ।
श्रुतिनामेकवाक्यत्वस्याविरोधापेक्षत्वात्प्रकृते च श्रुतिद्वयविरोधस्योक्तत्वान्नैकवाक्यतेति शङ्कते -
भवत्विति ।
उक्तं विरोधमेव स्फोरयति -
सकृदिति ।
‘तत्तेजोऽसृजत’ इति स्रष्टा तच्छब्दार्थः सकृदेव श्रुतः, तस्य स्रष्टव्यद्वयेनाकाशेन तेजसा च सम्बन्धः ‘तदाकाशमसृजत', ‘तत्तेजोऽसृजत’ इति नोपपद्यते, तत्कथमेकवाक्यतेत्यर्थः ।
स सूपं पक्त्वौदनं पचतीतिवदेकस्यापि स्रष्टुः स्रष्टव्यद्वयसम्बन्धसिद्धिरित्याशङ्क्य दृष्टान्ते क्रमसम्बन्धेऽपि दार्ष्टान्तिके प्राथम्यदृष्टेरुभयोः सृष्टिक्रमस्य चेष्टत्वाद्युगपदनुत्पत्तेर्न विरोधसमाधिरित्याह -
द्वयोश्चेति ।
शाखाभेदेन प्रथमजत्वं विकल्प्यतामित्याशङ्क्य वस्तुनि तदयोगान्मैवमित्याह -
विकल्पेति ।
तेजःसृष्टिप्राथम्ये वियत्सृष्टिस्तत्प्राथम्यं चेत्युभयं बाध्यम् , आकाशसृष्टिप्राथम्ये तु प्राथम्यमेव तेजःसृष्टेर्बाध्यं न तत्सृष्टिर्वायोरग्निरिति, तस्याः स्थानान्तरत्वप्रतिलम्भात् , तत्र श्रुतधर्मिबाधकल्पनादुभयबाधप्रसञ्जकाद्धर्मबाधकल्पनमेव युक्तमित्याह -
नैष इति ।
किञ्च श्रुत्योरन्यथोपपद्यमानानुपपद्यमानयोरन्यथानुपपद्यमाना श्रुतिर्बलीयसीति तैत्तिरीयश्रुतिरेवानुसर्तव्येत्याह -
अशक्येति ।
छान्दोग्यश्रुतेरन्यथोपपद्यमानत्वेन दुर्बलत्वमाह -
शक्येति ।
अन्यथा परिणयनमेवाभिनयति -
तदाकाशमिति ।
किञ्च ‘तत्तेजोऽसृजत’ इति श्रुतिः साक्षादेवाकाशस्योत्पत्तिं वारयेदर्थाद्वेति विकल्प्याद्यं दूषयति -
नहीति ।
न द्वितीयः, आर्थिकश्रुतेर्दुर्बलत्वादित्याह -
श्रुत्यन्तरेति ।
तेजःश्रुतिस्तेजोजन्म वियदनुत्पत्तिश्चेत्युभयं साक्षादेव बोधयति चेत्का हानिरित्याशङ्क्याह -
एकस्येति ।
एकस्य स्रष्टुरनेकव्यापारवदेकस्यापि वाक्यस्य किं न स्यादित्याशङ्क्याह -
स्रष्टा त्विति ।
वृद्धप्रयोगाधीनं शब्दसामर्थ्यावधारणम् । न चावृत्तिरहितस्य शब्दस्यानेकत्रार्थे व्यापारो दृष्टः । दृष्टं तु क्रमाक्रमाभ्यामेकस्यापि कर्तुरनेकव्यापारवत्त्वमित्यर्थः ।
उक्तन्यायेन श्रुत्योरेकवाक्यत्वेनाविरुद्धार्थतया प्रामाण्यं युक्तमित्युपसंहरति -
इत्येकेति ।
एकं वाक्यमावृत्तिरहितमनेकव्यापारवन्न चेत्कथं तर्हि ‘तत्तेजोऽसृजत’ इत्यत्राकाशस्योत्पत्तिरुपसंहर्तव्येत्याशङ्क्य नास्मिन्नर्थे वाक्यस्यैकस्य व्यापारोऽपि तु भिन्नानां वाक्यानामित्याह -
नचेति ।
श्रुत्यन्तरसिद्धोऽपि क्रमः श्रुत्यन्तरे सङ्गृरह्यो भवतीत्येतद्दृष्टान्तेन स्पष्टयति -
यथा चेति ।
दृष्टान्तवैषम्यं शङ्कते -
नन्विति ।
तत्र विशेषणश्रुतिं प्रमाणयति -
तज्जलानितीति ।
व्यावर्त्यं कीर्तयति -
नैतदिति ।
यत्परः शब्दः स शब्दार्थः ।
न चायं शब्दः सृष्टिपरोऽतो न प्रसिद्धं क्रमं बाधितुमलमिति फलितमाह -
तस्मादिति ।
दार्ष्टान्तिके विशेषमाह -
तत्तेज इति ।
तस्य सृष्टिपरत्वेऽपि श्रुत्यन्तरप्रसिद्धक्रमानुरोधित्वमाशङ्क्याह -
तस्मादिति ।
तत्परत्वातत्परत्ववैषम्येऽपि ‘तत्तेजोऽसृजत’ इत्यस्य न श्रुत्यन्तरसिद्धक्रमनिवारकतेत्याह -
नेत्युच्यत इति ।
किञ्च गुणभूतक्रमविरोधान्न प्रधानभूतपदार्थत्यागो युक्तः, गुणप्रधानविरोधे प्रधानानुरोधस्यैव युक्तत्वादित्याह -
नहीति ।
इतोऽपि तेजःप्राथम्यानुरोधेन वियत्पदार्थत्यागानुपपत्तिरित्याह -
अपिचेति ।
छान्दोग्ये तत्प्राथम्यं शाब्दमार्थं वा । नाद्य इत्याह -
तत्तेज इति ।
न द्वितीयः, अर्थसिद्धक्रमस्य श्रौतक्रमविरोधे बाधकत्वायोगादित्याह -
अर्थात्त्विति ।
वियत्पवनयोः श्रुतिं विना प्रथमतस्तेजःश्रुतिवशात्तस्य सृष्टौ प्राथम्यं भाति, तच्च श्रुत्यन्तरे तृतीयत्वश्रुत्या व्याहतमित्यर्थः ।
शाखाभेदेन विकल्पो वा स्यादुभयप्राथम्यस्योभयत्रोपसंहृतेः समुच्चयो वेत्याशङ्क्याह -
विकल्पेति ।
प्रथमजत्वे सिद्धवस्तुत्वाद्विकल्पासम्भवान्निरस्तः । ‘वायोरग्निः’ इति श्रुतिविरोधान्नोभयोरुभयत्र प्रथमजत्वम् । नच क्रमसृष्टाविष्टायामुभयोरुभयत्र प्राथम्यमुपसंहर्तृं शक्यं, तेन द्वाभ्यां द्वावपि निरस्तावित्यर्थः ।
तैत्तिरीयश्रुत्यनुरोधेन छान्दोग्यश्रुतिनयनान्न तयोर्विरोधोऽस्तीत्युपसंहरति -
तस्मादिति ।
न केवलमविरोधोऽपि तु छन्दोगश्रुतेरनुकूलैव तैत्तिरीयश्रुतिरित्याह -
अपिचेति ।
उत्पत्तौ वियदुपसंहारं विनापि प्रतिपादितत्वात्प्रतिज्ञाया न छान्दोग्यश्रुत्यनुकूला तैत्तिरीयश्रुतिरित्याशङ्क्य पूर्वोक्तमनुवदति -
यच्चेति ।
अतो न प्रतिज्ञेत्यत्राकाशस्योत्पत्त्यभावेऽपीति शेषः ।
एकमेवाद्वितीयमिति श्रुतिसमाधानमनुद्रवति -
न चेति ।
अन्यथा प्रतिज्ञोपपादनं तावद् दूषयति –
अत्रेति ।
क्षीरपूर्णघटे प्रक्षिप्ता नीरबिन्दवस्तद्ग्रहणेनैव गृह्यन्ते, न पृथक्पाथोबिन्दूनां ग्रहणमवशिष्यते । तथा ब्रह्मणि सकार्ये ज्ञाते तदभिन्नदेशकालं नभो विज्ञातमेव, तदनेन दृष्टान्तेन नेदं प्रतिज्ञानं नेतुं युक्तं, दृष्टान्तानुरोधित्वाद्दार्ष्टान्तिकस्य, दृष्टान्तस्य च प्रकृतिविकाररूपत्वाद्दार्ष्टान्तिकेऽपि तथात्वस्य युक्तत्वात् । तस्मादाकाशादेर्ब्रह्मविकारत्वे तत्प्रकृतिभूतब्रह्मणोऽनन्यत्वमित्यनेनैव न्यायेनेदं नेयमित्यर्थः ।
इतश्च न क्षीरोदकदृष्टान्तेनैतन्नेतव्यमित्याह -
न क्षीरेति ।
तत्र हेतुमाह -
नहीति ।
मा भूदेकविज्ञानेन सर्वविज्ञानं सम्यग्ज्ञानं, तत्राह -
न चेति ।
मायया भ्रान्तिरूपया यदलीकं मिथ्याभाषणं तेन वञ्चनमन्यथाबोधनं तेन वा विप्रलिप्सादिभिर्वा नार्थावधारणमपौरुषेयस्य वेदस्योपपद्यते । तेषां पुरुषधर्मत्वाद्वेदेऽसम्भवादित्यर्थः ।
यत्तु क्षीरनीरवद्ब्रह्मनभसोरव्यतिरेकादद्वितीयश्रुतिरिति, तत्राह -
सावधारणेति ।
यद्यद्वितीयपदमौपचारिकं तर्हि कथमवधारणम् । नहि माणवके सिंहत्वोपचारेण सिंहादन्यो माणवको नेति प्रयोगोऽस्तीत्यर्थः ।
यत्तु स्वकार्यापेक्षया सर्वमिदमुपपन्नमिति, तत्राह -
नचेति ।
तत्सम्भवाद्ब्रह्मणि विशेषणवैयर्थ्यमिति पूरयितुं हिशब्दः ।
मृदादिष्वपि स्वकार्यापेक्षया वस्त्वेकदेशविषयं सर्वविज्ञानमिच्छन्तं प्रति दोषान्तरमाह -
न तदिति ।
कथमपूर्ववदुपन्यासः, तत्राह -
श्वेतकेतो इति ।
त्वत्पक्षे वा कथमिदं प्रतिज्ञानं, तत्राह -
तस्मादिति ।
स्वकार्यापेक्षया वस्त्वेकदेशविषयत्वासम्भवादिति यावत् ॥ ६ ॥