सावधारणाद्वितीयश्रुतेरेकविज्ञानेन सर्वविज्ञानप्रतिपादनाच्च नभसोऽपि ब्रह्मकार्यत्वं पृथिव्यादिवदित्युक्तम् । इदानीमनुमानविरोधादाकाशोत्पत्तेरसम्भवात्तदुत्पत्तिश्रवणं गौणमित्युक्तमनुवदति -
यत्पुनरिति ।
अनुमानस्य मानान्तरविरोधेनामानत्वान्नाकाशोत्पत्तिश्रुतेर्गौणत्वापादनसामर्थ्यमिति सूत्रमवतारयति -
अत्रेति ।