अक्षरोक्तमर्थं कथयति -
तुशब्द इति ।
व्यावृत्तिप्रकारमभिनयति -
न खल्विति ।
तत्र विभक्तत्वहेतुकमनुमानं हेतुं कुर्वन्व्याप्तिमाह -
यत इति ।
यद्विभक्तं तत्कार्यं यथा च घटादीत्यन्वयमुक्त्वा व्यतिरेकमाह -
न त्विति ।
यन्न कार्यं तन्न विभक्तं, यथात्मेत्यर्थः ।
व्याप्तस्य हेतोः पक्षधर्मतामाह -
विभागश्चेति ।
विमतं कार्यम् , अविद्याव्यतिरिक्तत्वे सति विभक्तत्वात्सामान्यवत्त्वाद्गुणित्वाच्च घटवदित्यभिप्रेत्याह -
तस्मादिति ।
दिगादिषु व्यभिचारमाशङ्क्य पक्षतुल्यत्वान्मैवमित्याह -
एतेनेति ।
आत्मा गगनादिभ्यो विभको न वा । आद्ये विभक्तोऽपि विकारो नेति व्यभिचारः । द्वितीये तदभिन्नत्वात्तद्वदेव तस्यापि कार्यतेति मत्वा चोदयति -
नन्विति ।
न तावदात्मनि व्यभिचारः, सति मातरि बाधविधुरे विभागाभावात् । नच तस्य प्रातीतिकविभागेन कार्यत्वं, सर्वकारणत्वश्रुतिविरोधात् । नच तद्वदेवाकाशस्यापि न कार्यता, तत्कार्यतायाः श्रुतत्वादित्यभिप्रेत्याह -
न । आत्मन इति ।
आत्मनोऽपि वस्तुत्वाद्धटवत्कार्यत्वानुमानान्न सर्वकारणतेत्याशङ्क्यार्थापत्तिविरोधान्नैवमित्याह -
यदि हीति ।
निरात्मकत्वं निरुपादानत्वम् ।
तत्प्राप्तिफलमाह -
तथाचेति ।
इष्टापत्तिं निराचष्टे -
आत्मत्वाच्चेति ।
निराकर्तास्ति न वा । आद्ये निराकर्तैवात्मेत्यात्मनो नित्यसत्त्वम् । द्वितीये तदभावे निराकरणासिद्धेर्नित्यत्वमित्यर्थः ।
आत्मकारणस्यैवाकाशादिकारणत्वान्न सर्वस्य निरात्मकत्वमित्याशङ्क्याह -
नहीति ।
सत्तास्फूर्त्योरन्यानपेक्षत्वादात्मनोऽनागन्तुकत्वं, तत्कथं तत्कारणमाकाशादिकारणमित्यर्थः ।
प्रमाणापेक्षया सिध्यन्नात्मा कथं निरपेक्षस्फूर्तिरित्याशङ्क्याह -
नहीति ।
तस्यापि स्वयमेव साधकत्वादित्यर्थः ।
प्रत्प्रक्षाद्व्यतिरेकेणात्मनः सिद्धत्वे तेषामानर्थक्यमित्याशङ्क्याह -
तस्य हीति ।
आत्मानः स्वयंसिद्धत्वे वस्तुत्वाविशेषादाकाशादीनामपि तथा सम्भवात्प्रमाणवैयर्थ्यतादवस्थ्यमित्याशङ्क्याह -
नहीति ।
जडत्वादनभ्युपगमाच्च न स्वतःसिद्धता तेषामित्यर्थः ।
आत्मनोऽपि स्वप्रकाशत्वं वादिनो नोपगच्छन्तीत्याशङ्क्याह -
आत्मा त्विति ।
प्रमाणादिसाक्षित्वान्न तदधीनात्मसिद्धिरित्यर्थः ।
आत्मनः स्वप्रकाशत्वेऽपि कथमनिराकरणमित्याशङ्क्याह -
नचेति ।
निराकरणमपि तदधीनात्मलाभं तद्विरुद्धं नोदेतीत्यर्थः ।
अहमस्मि ब्रह्मेति तत्त्वज्ञानान्नाहं कर्ता भोक्ता चेत्यात्मनोऽपि निराकरणं दृष्टमित्याशङ्क्याह -
आगन्तुकं हीति ।
जीवत्वमनागन्तुकमपि निराक्रियमाणमिष्टमित्याशङ्क्याह -
नेति ।
किं तर्हि स्वरूपं तदाह -
य एवेति ।
तदपि निराक्रियतामित्याशङ्क्य निराकर्त्रन्तराभावान्नैवमित्याह -
नहीति ।
आत्मनः सत्तास्फूर्त्योरन्यानपेक्षत्वमनागन्तुकत्वे कारणमुक्त्वा स्फूर्तावन्यानपेक्षत्वमुपपाद्य सत्तायामपि तदुपपादयति -
तथेति ।
सदाहमित्यपरोक्षैकरूपानुभवान्नात्मनः सत्ताव्यभिचारः, येनान्यतः सत्तामाकाङ्क्षेदित्यर्थः ।
जीवतो मातुरन्यथाभावाभावेेऽपि मृतस्य स्यादित्याशङ्क्याह -
तथेत्यादिना ।
यत्स्वभावत्वमनुभवसिद्धं तस्यान्यथात्वं बाधकादवसातव्यं, बाधकं च घटादीनां स्वभावाद्विचलनं मानोपनीतं, यस्य तु न तदस्ति तस्यात्मनोऽनुभवसिद्धस्य नान्यथात्वमिति भावः ।
आत्मनः स्वतःसिद्धत्वेनानागन्तुकत्वे फलितमाह -
एवमिति ।
विभक्तत्वहेतोरव्यभिचारेऽपि बाधकतर्काभावादप्रयोजकतेत्याशङ्क्याह -
कार्यत्वं चेति ।
अकार्यस्यात्मनः स्वरूपोपाधावबाधितभेदशून्यत्वान्न मुख्यं विभक्तत्वम् । आकाशस्य तथाविधभेदवत्त्वान्मुख्यविभागित्वेन कार्यत्वमन्यथा मुख्यविभागानुपपत्तिरिति कुतोऽप्रयोजकतेत्यर्थः ।