ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
यत्पुनरेतदुक्तम्असम्भवाद्गौणी गगनस्योत्पत्तिश्रुतिरिति, अत्र ब्रूमः

सावधारणाद्वितीयश्रुतेरेकविज्ञानेन सर्वविज्ञानप्रतिपादनाच्च नभसोऽपि ब्रह्मकार्यत्वं पृथिव्यादिवदित्युक्तम् । इदानीमनुमानविरोधादाकाशोत्पत्तेरसम्भवात्तदुत्पत्तिश्रवणं गौणमित्युक्तमनुवदति -

यत्पुनरिति ।

अनुमानस्य मानान्तरविरोधेनामानत्वान्नाकाशोत्पत्तिश्रुतेर्गौणत्वापादनसामर्थ्यमिति सूत्रमवतारयति -

अत्रेति ।