आकाशानुत्पत्त्यनुमानानां प्रत्यनुमानविरोधमुक्त्वा समवायिकारणशून्यत्वं विशेषतो दूषयितुमनुभाषते -
यत्त्विति ।
तत्र समानजातीयस्यारम्भकत्वमयोगव्यवच्छेदेनान्ययोगव्यवच्छेदेन वेति विकल्प्यमाद्यमङ्गीकृत्य द्वितीयं दूषयति –
तत्प्रतीति ।
नियमो हि कारणमात्रनिष्ठो वा निमित्तकारणनिष्ठो वा समवायिकारणनिष्ठो वेति विकल्प्याद्यं प्रत्याह -
न हीति ।
न द्वितीय इत्याह -
न चेति ।
तृतीयमादत्ते -
स्यादेतदिति ।
समवायिकारणस्यापरजात्या वा परजात्या वा समानजातीयत्वमिति विकल्प्याद्यं निरस्यति -
तदपीति ।
अनैकान्तिकान्तरमाह -
तथेति ।
नच रज्ज्वादेः सूत्रवालादिसमुदायमात्रत्वं, पटादेरपि तथात्वापत्ताववयविसमुदायमात्रापाकरणप्रसङ्गादिति भावः ।
द्वितीय समानजातीयविशेषणवैयर्थ्यम् , अद्रव्यस्यासतश्चानारम्भकत्वेन सर्वस्यापि समानजातीयत्वसम्भवादित्याह -
सत्त्वेति ।
समानजातीयमेवारम्भकमिति नियमं निराकृत्यानेकेषामारम्भकत्वनियमं निराकरोति -
नापीति ।
तन्नियमो हि कार्यमात्रारम्भे वा द्रव्यारम्भे वा । नाद्य इत्याह -
अणुमनसोरिति ।
ययोः संयोगस्तौ संहत्य कर्मारभेते चेत्तस्योभयसमवेतत्वादेकद्रव्यत्वव्याहतिरित्याशङ्क्य सति कर्मणि संयोगः सति च तस्मिन्कर्मेति परस्पराश्रयत्वान्नैवमित्याह -
एकैको हीति ।
द्व्यणुकारम्भकसंयोगासमवायिकारणमात्ममनःसंयोगजनकं च कर्माद्यं कर्म । द्वितीयमवलम्बते -
द्रव्येति ।
आरम्भवादानभ्युपगमेन दूषयति -
न । परिणामेति ।
तदेव प्रपञ्चयति -
भवेदिति ।
न त्वेवमभ्युपगम्यते । तस्मान्नैष नियम इति शेषः ।
तदनभ्युपगमे कथं कार्योत्पत्तिरित्याशङ्क्याह -
तदेवेति ।
परिणामपक्षेऽपि तुल्यमनेकेषां कारणत्वमित्याशङ्क्याह -
तच्चेति ।
यत्र क्षीरं दधिभावेन परिणमते तत्र नावयवानामनेकेषामुपादानत्वम् , अविभक्तस्यैव क्षीरस्य दध्यात्मना परिणामोपलम्भात् , यथा परमाणुवादिनां क्षीरद्व्यणुकं त्र्यणुकं वा द्रव्यान्तरासंयोगेऽपि दधि जनयति तथा परिणामपक्षेऽपीति विवक्षन्नाह -
क्वचिदिति ।
पक्षद्वयेऽपि कारणत्वमनेकेषामित्यस्मिन्नियमे न कारणमस्तीत्याह -
नेश्वरेति ।
एकस्मादनेकस्माच्च कार्योत्पत्तिदर्शनान्निर्णयासिद्धिरित्याशङ्क्याह -
अत इति ।
एकस्यापि परिणामिनः सहकार्यपेक्षादर्शनात्तद्विरहिणो ब्रह्मणो जगत्कारणत्वमयुक्तमित्याशङ्क्याह -
तथाचेति ।