ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
यच्चोक्तम् आकाशस्योत्पत्तौ पूर्वोत्तरकालयोर्विशेषः सम्भावयितुं शक्यत इति, तदयुक्तम्येनैव विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते, एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यतेयथा ब्रह्म स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत्अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादिश्रुतिभ्यः, एवमाकाशस्वभावेनापि स्वभाववदनाकाशमिति श्रुतेरवगम्यतेतस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम्यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति, तदप्यसत् , श्रुतिविरोधे सत्युत्पत्त्यसम्भवानुमानस्याभासत्वोपपत्तेःउत्पत्त्यनुमानस्य दर्शितत्वात्अनित्यमाकाशम् , अनित्यगुणाश्रयत्वात् , घटादिवदित्यादिप्रयोगसम्भवाच्चआत्मन्यनैकान्तिकमिति चेत् , तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धेःविभुत्वादीनां आकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात्यच्चोक्तमेतत्शब्दाच्चेतितत्रामृतत्वश्रुतिस्तावद्वियतिअमृता दिवौकसःइतिवद्द्रष्टव्या , उत्पत्तिप्रलययोरुपपादितत्वात्आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इत्यपि प्रसिद्धमहत्त्वेनाकाशेनोपमानं क्रियते निरतिशयमहत्त्वाय, आकाशसमत्वाययथाइषुरिव सविता धावतिइति क्षिप्रगतित्वायोच्यते, इषुतुल्यगतित्वायतद्वत्; एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता; ‘ज्यायानाकाशात्इत्यादिश्रुतिभ्यश्च ब्रह्मणः सकाशादाकाशस्योनपरिमाणत्वसिद्धिः तस्य प्रतिमास्ति’ (श्वे. उ. ४ । १९) इति ब्रह्मणोऽनुपमानत्वं दर्शयतिअतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति ब्रह्मणोऽन्येषामाकाशादीनामार्तत्वं दर्शयतितपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसम्भवश्रुत्यनुमानाभ्यां परिहृतम्तस्माद्ब्रह्मकार्यं वियदिति सिद्धम् ॥ ७ ॥

कारणशून्यत्वादाकाशमात्मवदनुत्पत्तिमदित्येतन्निरस्तम् । इदानीमभूत्वाभावित्वाभावान्न तदुत्पत्तिमदित्युक्तमनुवदति -

यच्चोक्तमिति ।

हेत्वसिद्ध्या परिहरति -

तदयुक्तमिति ।

शब्दाधारत्वं विशेषः । आकाशस्य मूर्तत्वाभावान्मूर्तविरोधिनश्चार्थान्तरत्वात्तदभावेऽपि न प्रागवस्थायां काठिन्यप्रसक्तिरिति भावः ।

‘अाकाशशरीरं ब्रह्म’ इति श्रुतेराकाशाभावे कथं ब्रह्मणोऽवस्थानमित्याशङ्क्याकाशवच्छरीरमस्येति व्युत्पत्त्या श्रुत्युपपत्तिं मत्त्वाऽह -

यथा चेति ।

अवकाशान्तरमन्तरेणाकाशस्थितिवद्ब्रह्मणोऽपि तत्कारणस्य तदतिरेकेण सुषुप्त्यवस्थायामिवावस्थितिरविरुद्धेति हेत्वसिद्धिमुपसंहरति -

तस्मादिति ।

उक्तानुमानान्तराण्यनूद्य कालात्ययापदिष्टतामाह -

यदपीति ।

न्यायशून्या श्रुतिरनुमानमपबाधितुमसमर्थेत्याशङ्क्याह -

उत्पत्तीति ।

इतश्चाकाशस्य न नित्यत्वमित्याह -

अनित्यमिति ।

वस्तुतस्तु गुणाश्रयत्वमेव हेतुः । आकाशो जायते, महाभूतत्वात् , अस्मदादिबाह्येन्द्रियग्राह्यगुणाधारत्वाद्वा, पृथिव्यादिवदित्यनुमानमादिशब्दार्थः ।

आद्यस्य हेतोरन्यतरानैकान्तिकत्वं चोदयति -

आत्मनीति ।

निर्गुणत्वश्रुतिमाश्रित्य परिहरति -

न तस्येति ।

न चाकाशमनित्यविशेषगुणाधिकरणविभुभिन्नं, मेयत्वादिति तत्सिद्धिः । आकाशं श्रोत्रग्राह्यविशेषगुणाधिकरणविभ्वन्यत् , मेयत्वादित्यपि प्रसङ्गात् , आत्मनि सर्वविशेषनिराकरणविविधश्रुतिविरोधाच्चेति भावः ।

इतश्च त्वदुक्ता हेतवः साधका न भवन्तीत्याह -

विभुत्वादीनां चेति ।

आकाशस्य नित्यत्वे नानुमानमस्तीत्युपपाद्य यच्चैतदुक्तं शब्दान्नित्यत्वमिति तदनूद्य दूषयति -

यच्चेतदिति ।

किमित्यमृतत्वश्रुतिरापेक्षिकी व्याख्यायते मुक्यार्थैव किं न स्यादित्याशङ्क्याह -

उत्पत्तीति ।

आकाशस्यानित्यत्वं चेदात्मनि तत्तुल्यत्वश्रुतिर्व्याहन्येतेत्याशङ्क्याह -

आकाशवदिति ।

समत्वाभावे न क्वचिदुपमानत्वमुपलब्धमित्याशङ्क्याह -

यथेति ।

‘स यथानन्तोऽयमाकाश एवमनन्त आत्मा’ इति श्रुतिस्तर्हि कथमित्याशङ्क्याह -

एतेनेति ।

उत्पत्तिविनाशयोरुपपादितत्वेन न्यूनेनोपमानायोगाच्चेत्यर्थः ।

कथमाकाशस्य ब्रह्मणः सकाशान्न्यूनपरिमाणत्वमित्याशङ्क्य पूर्वोक्तयुक्त्या श्रुतिं समुच्चिनोति -

ज्यायानिति ।

इतश्च ब्रह्मणि नोपमानोपपत्तिरित्याह -

न तस्येति ।

इतोऽपि नित्यत्वमाकाशस्य नाशङ्कितव्यमित्याह -

अतोऽन्यदिति ।

यदुक्तं स्याच्चैकस्य ब्रह्मशब्दवदिति, तद्दूषयति -

तपसीति ।

युक्तं तपसि ब्रह्मशब्दस्य गौणत्वं, तस्य ब्रह्मज्ञानसाधनत्वात् , आकाशे तु सम्भूतशब्दस्य ज्वलनादिवद्बाधकाभावादनुग्राहकसद्भावाच्च मुख्यत्वमेवेत्यर्थः ।

श्रुतियुक्तिसिद्धमुपसंहरति -

तस्मादिति ।

आकाशसृष्टिश्रुत्यनुसारेण तेजः सृष्टिश्रुतिनयनात्तयोरेकवाक्यतया प्रामाण्योपपत्तेराकाशकारणे ब्रह्मणि समन्वयः सिद्ध्यतीत्यधिकरणार्थं निगमयति -

इति सिद्धमिति ॥ ७ ॥