ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥
अतिदेशोऽयम्एतेन वियद्व्याख्यानेन मातरिश्वापि वियदाश्रयो वायुर्व्याख्यातःतत्राप्येते यथायोगं पक्षा रचयितव्याः वायुरुत्पद्यते, छन्दोगानामुत्पत्तिप्रकरणेऽनाम्नानादित्येकः पक्षः, अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरणे आम्नानम् आकाशाद्वायुः’ (तै. उ. २ । १ । १)इति पक्षान्तरम्ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिः, असम्भवात् इत्यपरोऽभिप्रायःअसम्भवश्च सैषानस्तमिता देवता यद्वायुः’ (बृ. उ. १ । ५ । २२) इत्यस्तमयप्रतिषेधात् अमृतत्वादिश्रवणाच्चप्रतिज्ञानुपरोधाद्यावद्विकारं विभागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्तःअस्तमयप्रतिषेधोऽपरविद्याविषय आपेक्षिकः, अग्न्यादीनामिव वायोरस्तमयाभावात्कृतप्रतिविधानं अमृतत्वादिश्रवणम्ननु वायोराकाशस्य तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरेकमेवाधिकरणमुभयविषयमस्तु किमतिदेशेनासति विशेष इति, उच्यतेसत्यमेवमेतत्तथापि मन्दधियां शब्दमात्रकृताशङ्कानिवृत्त्यर्थोऽयमतिदेशः क्रियतेसंवर्गविद्यादिषु ह्युपास्यतया वायोर्महाभागत्वश्रवणात् अस्तमयप्रतिषेधादिभ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति ॥ ८ ॥

वियदुत्पत्तिमुक्त्वा पवनोत्पत्तिमतिदेशेन साधयति -

एतेनेति ।