ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥
वियत्पवनयोरसम्भाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य, ब्रह्मणोऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिःतथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्य, आकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येततामाशङ्कामपनेतुमिदं सूत्रम्
‘असम्भवस्त्वि’ति खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः सम्भव उत्पत्तिराशङ्कितव्याकस्मात् ? अनुपपत्तेःसन्मात्रं हि ब्रह्म तस्य सन्मात्रादेवोत्पत्तिः सम्भवति, असत्यतिशये प्रकृतिविकारभावानुपपत्तेःनापि सद्विशेषात् , दृष्टविपर्ययात्सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते; मृदादेर्घटादयः तु विशेषेभ्यः सामान्यम्नाप्यसतः, निरात्मकत्वात्कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति आक्षेपश्रवणात् कारणं करणाधिपाधिपो चास्य कश्चिज्जनिता चाधिपः’ (श्वे. उ. ६ । ९) इति ब्रह्मणो जनयितारं वारयतिवियत्पवनयोः पुनरुत्पत्तिः प्रदर्शिता, तु ब्रह्मणः सा अस्तीति वैषम्यम् विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्रह्मणोऽपि विकारत्वं भवितुमर्हति, मूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गात्या मूलप्रकृतिरभ्युपगम्यते, तदेव नो ब्रह्मेत्यविरोधः ॥ ९ ॥

ब्रह्मणो वियत्पवनकारणत्वं पूर्वाधिकरणयोरुक्तम् । इदानीमग्निरेव विस्फुलिङ्गोऽग्नेर्यथोत्पद्यते तथा ब्रह्मान्तराद्ब्रह्मोत्पद्यतामित्याशङ्क्याह -

असम्भवस्त्विति ।