ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥
अतिदेशोऽयम्एतेन वियद्व्याख्यानेन मातरिश्वापि वियदाश्रयो वायुर्व्याख्यातःतत्राप्येते यथायोगं पक्षा रचयितव्याः वायुरुत्पद्यते, छन्दोगानामुत्पत्तिप्रकरणेऽनाम्नानादित्येकः पक्षः, अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरणे आम्नानम् आकाशाद्वायुः’ (तै. उ. २ । १ । १)इति पक्षान्तरम्ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिः, असम्भवात् इत्यपरोऽभिप्रायःअसम्भवश्च सैषानस्तमिता देवता यद्वायुः’ (बृ. उ. १ । ५ । २२) इत्यस्तमयप्रतिषेधात् अमृतत्वादिश्रवणाच्चप्रतिज्ञानुपरोधाद्यावद्विकारं विभागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्तःअस्तमयप्रतिषेधोऽपरविद्याविषय आपेक्षिकः, अग्न्यादीनामिव वायोरस्तमयाभावात्कृतप्रतिविधानं अमृतत्वादिश्रवणम्ननु वायोराकाशस्य तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरेकमेवाधिकरणमुभयविषयमस्तु किमतिदेशेनासति विशेष इति, उच्यतेसत्यमेवमेतत्तथापि मन्दधियां शब्दमात्रकृताशङ्कानिवृत्त्यर्थोऽयमतिदेशः क्रियतेसंवर्गविद्यादिषु ह्युपास्यतया वायोर्महाभागत्वश्रवणात् अस्तमयप्रतिषेधादिभ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति ॥ ८ ॥

अत्र पूर्ववत्पादादिसङ्गतयो न पृथग्वक्तव्या भवन्तीत्यभिप्रेत्य तात्पर्यमाह -

अतिदेशोऽयमिति ।

फलभेदमपि पूर्ववदुपेत्य सूत्राक्षरार्थं कथयति -

एतेनेति ।

वियदुत्पत्तिकथनानन्तरं तेजआद्यतिक्रम्य वायोरुत्पत्तिमत्वेन व्याख्याने कारणमाह -

वियदाश्रय इति ।

‘तत्तेजोऽसृजत’ इति श्रुतिः ‘आकाशाद्वायुः’ इति श्रुत्या विरुध्यते न वेत्येकवाक्यत्वासम्भवसम्भवाभ्यां संशये सत्यतिदेशं विशदीकर्तुं तुल्यन्यायत्वमाह -

तत्रापीति ।

बहूक्त्या वियदधिकरणेऽपि पक्षत्रयमस्तीति सूचितं, तदेव पक्षत्रयं सङ्क्षिपन्प्रथमं गौणवादिपक्षमाह -

न वायुरिति ।

पूर्वपक्षं सङ्क्षिपति -

अस्ति त्विति ।

छान्दोग्ये तेजसः ‘तत्तेजोऽसृजत’ इति प्रथमजत्वश्रवणात् , तैत्तिरीयके च ‘आकाशाद्वायुः’ इति वायोस्तेजःसकाशात्पूर्वजत्वश्रुतेरुभयोस्तदनुपपत्त्या मिथो विरोधे श्रुत्योरप्रामाण्यादाकाशद्वारा वायुकारणे ब्रह्मणि समन्वयासिद्धिरित्यर्थः ।दर्शितश्रुत्या वायुनित्यत्वमापेक्षिकमित्याशङ्क्याभ्यस्यमानत्वान्नैवमित्याह – अमृतत्वदीति । गौणवादिनोऽभिप्रायं सङ्गृह्णाति -

ततश्चेति ।

आकाशवद्वायोरकारणत्वाभावात्कथमसम्भवाशङ्केत्याशङ्क्याह -

असम्भवश्चेति ।

दर्शितश्रुत्या वायुनित्यत्वमापेक्षिकमित्याशङ्क्याभ्यस्यमानत्वान्नैवमित्याह –

अमृतत्वदीति ।

‘वायुश्चान्तरिक्षं चैतदमृतम्’ इति श्रूयते । आदिशब्देन ‘वायुरेव व्यष्टिर्वायुः समष्टिः’ इत्यभ्यासो गृह्यते । प्रतिज्ञाश्रुतेरनुमानाच्च पवनोत्पत्तेरावश्यकत्वे श्रुत्योरेकवाक्यतया विरोधाभावादाकाशद्वारा वायुकारणे ब्रह्मणि समन्वयः सिध्यतीति सिद्धान्तमाह -

प्रतिज्ञेति ।

यत्तु वायोरस्तमयप्रतिषेधादुत्पत्तेरसम्भव इति, तत्राह -

अस्तमयेति ।

अमृतत्वादिश्रवणं तर्हि कथं, तत्राह -

कृतेति ।

प्रतिज्ञावाक्यार्थप्राधान्यात्तदुपपादकवायूत्पत्तिप्रतिपादकवाक्यानां च बहुत्वान्मुख्यभूतस्त्वाभ्यां बलीयस्त्वादमृतत्वास्तमयनिषेधावापेक्षिकत्वेन नेयौ । अभ्यासत्सूपास्यादरार्थत्वान्न वायोरमृतत्वमात्यन्तिकं गमयति । ‘अप पुनर्मृत्युं जयति’ इत्यपमृत्यजयस्यैव वाक्यशेषे श्रवणादिति भावः ।

अधिकाशङ्काभावेनातिदेशमाक्षिपति -

नन्विति ।

अधिकां शङ्कां दर्शयन्नुत्तरमाह -

उच्यत इति ।

यदुक्तमसति विशेषे नातिदेशोऽर्थवानिति, तदङ्गीकरोति -

सत्यमिति ।

तर्हि पूर्वेणैवाधिकरणेन गतत्वादिदमघिकरणमनारभ्यमिति, तत्राह -

तथापीति ।

शब्दानुरोधिन्यपि शङ्का न वस्त्वनुरोधिनीति मात्रशब्दार्थः ।

शब्दमात्रकृतामाशङ्कामेव दर्शयति -

संवर्गेति ।

‘स यो वायुं दिशां वत्सं वेद’ इत्यादिविद्यासङ्ग्रहार्थमादिपदम् । द्वितीयमादिपदममृतत्वश्रवणमभ्यासं च सङ्गृह्णाति । अमृतत्वादिश्रवणस्य कृतप्रतिविधित्वात्कथं तद्वशादाशङ्केति, तत्राह -

कस्यचिदिति ।

प्रतिज्ञानुपरोधादिना वायोर्नित्यत्वानुपपत्तेरुक्तत्वात्तत्कारणे ब्रह्मणि समन्वयः सिध्यतीत्युपसंहर्तुमितिशब्दः ॥ ८ ॥