अत्र पूर्ववत्पादादिसङ्गतयो न पृथग्वक्तव्या भवन्तीत्यभिप्रेत्य तात्पर्यमाह -
अतिदेशोऽयमिति ।
फलभेदमपि पूर्ववदुपेत्य सूत्राक्षरार्थं कथयति -
एतेनेति ।
वियदुत्पत्तिकथनानन्तरं तेजआद्यतिक्रम्य वायोरुत्पत्तिमत्वेन व्याख्याने कारणमाह -
वियदाश्रय इति ।
‘तत्तेजोऽसृजत’ इति श्रुतिः ‘आकाशाद्वायुः’ इति श्रुत्या विरुध्यते न वेत्येकवाक्यत्वासम्भवसम्भवाभ्यां संशये सत्यतिदेशं विशदीकर्तुं तुल्यन्यायत्वमाह -
तत्रापीति ।
बहूक्त्या वियदधिकरणेऽपि पक्षत्रयमस्तीति सूचितं, तदेव पक्षत्रयं सङ्क्षिपन्प्रथमं गौणवादिपक्षमाह -
न वायुरिति ।
पूर्वपक्षं सङ्क्षिपति -
अस्ति त्विति ।
छान्दोग्ये तेजसः ‘तत्तेजोऽसृजत’ इति प्रथमजत्वश्रवणात् , तैत्तिरीयके च ‘आकाशाद्वायुः’ इति वायोस्तेजःसकाशात्पूर्वजत्वश्रुतेरुभयोस्तदनुपपत्त्या मिथो विरोधे श्रुत्योरप्रामाण्यादाकाशद्वारा वायुकारणे ब्रह्मणि समन्वयासिद्धिरित्यर्थः ।दर्शितश्रुत्या वायुनित्यत्वमापेक्षिकमित्याशङ्क्याभ्यस्यमानत्वान्नैवमित्याह – अमृतत्वदीति । गौणवादिनोऽभिप्रायं सङ्गृह्णाति -
ततश्चेति ।
आकाशवद्वायोरकारणत्वाभावात्कथमसम्भवाशङ्केत्याशङ्क्याह -
असम्भवश्चेति ।
दर्शितश्रुत्या वायुनित्यत्वमापेक्षिकमित्याशङ्क्याभ्यस्यमानत्वान्नैवमित्याह –
अमृतत्वदीति ।
‘वायुश्चान्तरिक्षं चैतदमृतम्’ इति श्रूयते । आदिशब्देन ‘वायुरेव व्यष्टिर्वायुः समष्टिः’ इत्यभ्यासो गृह्यते । प्रतिज्ञाश्रुतेरनुमानाच्च पवनोत्पत्तेरावश्यकत्वे श्रुत्योरेकवाक्यतया विरोधाभावादाकाशद्वारा वायुकारणे ब्रह्मणि समन्वयः सिध्यतीति सिद्धान्तमाह -
प्रतिज्ञेति ।
यत्तु वायोरस्तमयप्रतिषेधादुत्पत्तेरसम्भव इति, तत्राह -
अस्तमयेति ।
अमृतत्वादिश्रवणं तर्हि कथं, तत्राह -
कृतेति ।
प्रतिज्ञावाक्यार्थप्राधान्यात्तदुपपादकवायूत्पत्तिप्रतिपादकवाक्यानां च बहुत्वान्मुख्यभूतस्त्वाभ्यां बलीयस्त्वादमृतत्वास्तमयनिषेधावापेक्षिकत्वेन नेयौ । अभ्यासत्सूपास्यादरार्थत्वान्न वायोरमृतत्वमात्यन्तिकं गमयति । ‘अप पुनर्मृत्युं जयति’ इत्यपमृत्यजयस्यैव वाक्यशेषे श्रवणादिति भावः ।
अधिकाशङ्काभावेनातिदेशमाक्षिपति -
नन्विति ।
अधिकां शङ्कां दर्शयन्नुत्तरमाह -
उच्यत इति ।
यदुक्तमसति विशेषे नातिदेशोऽर्थवानिति, तदङ्गीकरोति -
सत्यमिति ।
तर्हि पूर्वेणैवाधिकरणेन गतत्वादिदमघिकरणमनारभ्यमिति, तत्राह -
तथापीति ।
शब्दानुरोधिन्यपि शङ्का न वस्त्वनुरोधिनीति मात्रशब्दार्थः ।
शब्दमात्रकृतामाशङ्कामेव दर्शयति -
संवर्गेति ।
‘स यो वायुं दिशां वत्सं वेद’ इत्यादिविद्यासङ्ग्रहार्थमादिपदम् । द्वितीयमादिपदममृतत्वश्रवणमभ्यासं च सङ्गृह्णाति । अमृतत्वादिश्रवणस्य कृतप्रतिविधित्वात्कथं तद्वशादाशङ्केति, तत्राह -
कस्यचिदिति ।
प्रतिज्ञानुपरोधादिना वायोर्नित्यत्वानुपपत्तेरुक्तत्वात्तत्कारणे ब्रह्मणि समन्वयः सिध्यतीत्युपसंहर्तुमितिशब्दः ॥ ८ ॥