तैत्तिरीये छान्दोग्ये च जायमानत्वेन श्रुतं तेजो विषयः । तत्किं ब्रह्मकार्यं किं वा वायुकार्यमिति संशयस्य बीजं दर्शयन्पूर्वपक्षमाह -
छान्दोग्य इति ।
तत्रेति शाखाद्वयोक्तिः । नच ‘तत्तेजोऽसृजत’ इति श्रुतेर्निमित्तविषयत्वात् ‘वायोरग्निः’ इति श्रुतेरुपादानविषयत्वादविप्रतिपत्तिः । ‘बहु स्याम्’ इति बहुभवनाशंसनलिङ्गेनोपादानत्वावगमादिति भावः ।
अत्रापि श्रुत्योर्विरोधनिराकरणद्वारा वायुभावमापन्ने ब्रह्मणि तेजोयोनौ समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे श्रुत्योरनेकवाक्यत्वेन विरोधादप्रामाण्ये तेजोहेतौ ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तदेकवाक्यत्वेनाविरोधात्प्रामाण्ये तत्र तत्सिद्धिः । सत्यां विप्रतिपत्तौ विशेषकारणमन्तरेणान्यतरनिश्चयासिद्धिरिति शङ्कते -
कुत इति ।
उपक्रान्तस्य सन्मात्रस्यैकमेवाद्वितीयमित्यवधारिताद्वितीयत्वनिर्धारणाय ‘तत्तेजोऽसृजत’ इति वचनादुपादानादेवोपादेयस्याव्यतिरेकादुपादानत्वमेव तेजः प्रति ब्रह्मणो विवक्षितमित्याह -
सदेवेति ।
किञ्चाद्येेऽधिकरणे सर्वविज्ञानप्रतिज्ञानुगृहीतोत्पत्तिश्रुतेर्ब्रह्मजत्वं वियतो वर्णितं, तेनैव न्यायेन तेजसोऽपि ब्रह्मजत्वमेष्टव्यमित्याह -
सर्वविज्ञानेति ।
इतश्च ब्रह्मजत्वं तेजसो युक्तमित्याह -
तज्जलानिति चेति ।
अथर्वणश्रुत्या च तेजसो ब्रह्मजत्वसिद्धिरित्याह -
एतस्मादिति ।
तथापि तैत्तिरीयश्रुत्यालोचनायां न ब्रह्मजत्वं तेजसः स्यादित्याह -
तैत्तिरीयके चेति ।
ननु ‘वायोरग्निः’ इति श्रूतेर्वायुद्वारा तेजसो ब्रह्मजत्वेऽपि दर्शितश्रुतयो न विरुध्यन्तेऽन्यथा वायोरग्निरिति श्रुतिर्बाध्येत, तत्राह -
तस्मादिति ।
यद्यपि वायोरग्निरित्यपादानपञ्चमी कारकविभक्तिर्वायोरनन्तरमित्युपपदविभक्तेर्बलीयसी तथापि बहुश्रुतिविरोधाद्दुर्बलाऽपि सैवोचितेति मत्वा क्रमोपदेशमेव विशदयति -
वायोरिति ।