यदि पुनरित्थमस्याः श्रुतेरर्थो नाश्रीयते तर्हि विरुद्धार्थैव श्रुतिरियं पूर्वोक्तश्रुतिभिरिति पूर्वपक्षमनुभाष्य सिद्धान्तमाह -
एवं प्राप्त इति ।
तत्र प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
हेतुमेव व्यतिरेकद्वारा विवृणोति -
अव्यवहिते हीति ।
कदर्थिता पीडिता बाधितेति यावत् । तेजसो वायुयोनित्वं पञ्चमीश्रुत्या निर्धारितं, ब्रह्मयोनित्वं तु तस्य बहुभवनाशंसनलिङ्गादवगतम् , अतः श्रुत्या लिङ्गं बाधित्वा वायुयोनित्वं मुख्यमादाय लिङ्गं परम्परया ब्रह्मयोनित्वविषयं विवक्षमाणेन न्यायेन ब्रह्मवायुसमुच्चयमेवाभ्युपगमयतीति भावः ।
पञ्चमीश्रुतेरुक्तां गतिं पूर्ववादी स्मारयति -
नन्विति ।
न क्रमार्थत्वं पञ्चम्या युक्तं, पूर्वोत्तरवाक्योपादानेनापादानार्थत्वप्रतीतेरिति परिहरति -
नेतीति ।
उत्तरवाक्यमिहेत्युच्यते । इतश्चापादानार्थत्वमेव पञ्चम्या न क्रमार्थत्वमित्याह -
अपि चेति ।
प्रकरणादुपादानाख्यापादनकारकाभिधायित्वं पञ्चम्याः सिद्धं परित्यज्य पदार्थान्तरयोगो न कल्पयितुं शक्यते । क्लृप्तकल्प्ययोर्मध्ये क्लृप्तस्यैव बलीयस्त्वादित्यर्थः ।
पञ्चमीश्रुतेरक्रमार्थत्वे फलितमाह –
तस्मादिति ।
श्रुतिबलात् तेजसो वायुजत्वे तद्बलादेव ब्रह्मजत्वमपि तस्यास्थेयमतः श्रुत्योर्मिथो विरोधः स्यादिति शङ्कते –
नन्विति ।
‘वायोरग्निः’ इति साक्षात् तेजसो वायुजत्वमुच्यते, ‘तत्तेजोऽसृजत’ इति त्वाकाशवायुद्वारा तस्य ब्रह्मजत्वमिति विरोधसमाधिरिति समाधत्ते –
न, तस्या इति ।
अविरोधमेव साधयति –
यदापीति ।
साक्षात्पारम्पर्याभ्यां कारणत्वे दृष्टान्तमाह –
यथेति ।
तस्या धेनोः शृतं तप्तं क्षीरं विवक्षितम् । तदेव दधिसंसृष्टमामिक्षेति भेदः । तत्र क्षीरस्य दध्नि साक्षात्कारणत्वेऽपि गव्यं दधीति प्रयोगो दृष्टस्तथाऽत्रापीत्यर्थः ।
तर्हि ब्रह्मणो वायुभावापत्तौ किं प्रमाणमित्याशङ्क्याऽऽह –
दर्शयति चेति ।
पारम्पर्यजस्यापि तज्जत्वव्यपदेशयोग्यत्वे प्रमाणमाह –
तथा चेति ।
अन्तःकरणादिभ्यः स्वकारणेभ्यो बुद्ध्यादीनामयशोन्तानामुत्पत्तिदर्शनान्मत्त एवेत्यवधारणमयुक्तमित्याशङ्क्याऽऽह –
यद्यपीति ।
प्राणाड्या परम्परयेति यावत् । ईश्वरवंश्यत्वात् तद्वंशोद्भवत्वादिदमवधारणस्मरणमिति शेषः । सर्वस्येत्यस्मादर्वाक् तथापीति वक्तव्यम् । पारम्पर्यविषयत्वं ‘तत्तेजोऽसृजत’ इति श्रुतेरुक्तम् ।
इदानीम् ‘इदं सर्वमसृजत’ इत्यादिश्रुतेरपि पारम्पर्यविषयत्वमेषितव्यमित्याह –
एतेनेति ।
सर्वस्य साक्षाद् ब्रह्मजत्वाभावे कथं तासामुपपत्तिः, तत्राह –
तासामिति ।
सर्वथा साक्षात्परम्परया वा । सर्वस्य ब्रह्मजत्वमात्रेणाक्रमवादिनीनां श्रुतीनामुपपत्तेरितरश्रुतिवशात् पारम्पर्यमेवाश्रयणीयमित्यर्थः ।
क्रमश्रुतीनामेवाक्रमश्रुतिवशान्नयनं किं न स्यादित्याशङ्क्याऽऽह –
क्रमवदिति ।
अन्यथा पारम्पर्यमन्तरेणेति यावत् । न साक्षात्कारणविषयत्वमिति शेषः ।
अव्यवधानेन ब्रह्मजत्वाभावे कथं प्रतिज्ञेत्याशङ्क्याऽऽह –
प्रतिज्ञाऽपीति ।
अक्रमश्रुतीनां क्रमश्रुत्यनुसारित्वेन मिथो विरोधाभावात् तेजसो वियत्पवनद्वारा कारणे ब्रह्मणि समन्वयः सिद्ध्यतीत्युपसंहरति –
इत्यविरोध इति ॥१०॥
विषयं विविच्य सहेतुं संशयमाह -
स इति ।
श्रुतिविप्रतिपत्ति विशदयति -
कासुचिदिति ।
‘यथा सुदीप्तात्पावकात्’ इत्याद्या जीवोत्पत्तिवादिन्यः श्रुतयः ।
कासुचिदिति ।
‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्याद्यास्वित्यर्थः ।
प्रवेशवाक्येऽपि जन्मधीरस्तीत्याशङ्क्याह -
नचेति ।
श्रुतिविप्रतिपत्त्या शङ्कामुक्त्वा पूर्वपक्षयति -
तत्रेति ।
अत्र चोक्तश्रुतिविप्रतिपत्तिनिरासेन समन्वयदृढीकरणात्पादादिसङ्गतयः ।
पूर्वपक्षे श्रुतीनां विप्रतिपत्तेरनेकवाक्यत्वेन विरोधादप्रामाण्ये समन्वयासिद्धिः । सिद्धान्ते श्रुतीनामविप्रतिपत्तेरेकवाक्यत्वादविरोधे नित्ये प्रत्यग्ब्रह्मणि समन्वयसिद्धिः । जन्मप्रयोजकाविशेषत्वविरहान्नोत्पत्तिरित्याह -
कुत इति ।
आत्मनस्तद्बिरहे विवदमानो वियदुत्पत्तिन्यायेन प्रत्याह -
प्रतिज्ञेति ।
तदनुपरोधं साधयति -
एकस्मिन्निति ।
अकार्यत्वेऽपि प्रतिज्ञासिद्धिश्चेत्कि तत्कार्यत्वेनेत्याशङ्कय तस्य परस्माद्भिन्नत्वमभिन्नत्वं वेति विकल्प्याद्यं दूषयति -
तत्त्वान्तरत्वे त्विति ।
द्वितीयं निरस्यति -
नचेति ।
लक्षणमेदं साधयति -
अपहतेति ।
नित्यत्वश्रुतिविरोधमाशङ्क्यानुमानानुगृहीतानित्यत्वश्रुतिविरोधात्तासामुपचरितार्थतेति मत्वाह -
विभागाच्चेति ।
तत्त्वमस्यादिवाक्यापेक्षितार्थावेदकत्वान्नित्यत्वान्नित्यत्वश्रुतीनां नोपचरितार्थतेत्याशङ्क्य नित्यनित्ययोरपि कार्यकारणयोर्मृद्धटवत्तादात्म्यसम्भवादविरुद्धं महावाक्यमित्यभिप्रेत्यानित्यत्वश्रुत्यनुग्राहकानुमानाङ्गव्याप्तिमाह -
यावानिति ।
आकाशादेर्विभक्तत्वेऽपि विकारत्वासिद्धेरसिद्धा व्याप्तिरित्याशङ्क्याह -
तस्येति ।
व्याप्तस्य हेतोः पक्षधर्मतामाह -
जीवेति
प्रतिदेहमात्मविभागे कर्मतत्फलव्यवस्थानुपपत्तिं प्रमाणयितुं विशेषेण व्याप्तिं पक्षधर्मतां चेक्त्वानुमानमाह -
तस्येति ।
यदनुग्राहकमनुमानमुक्तं तां श्रुतिमाह -
अपिचेति ।
जीवस्य मुख्योत्पत्तिरत्र नेष्टेत्याशङ्क्य प्राणादीनां तथोत्पत्तिदृष्टेः समभिव्याहाराज्जीवस्यापि तादृश्येव सेति मत्वाह -
प्राणादेरिति ।
किञ्चौपाधिकं जन्म चेदुपाघेरेव तद्वाच्यं नोभयोरित्याशयेनाह -
सर्वएव इति ।
जन्ममात्रार्थां श्रुतिमुक्त्वा जन्मनाशार्थं श्रुत्यन्तरमाह -
यथेति ।
भावानामेवोत्पत्तिलयावत्रोक्तौ न जीवानामित्याशङ्क्याह -
सरूपेति ।
भावशब्दो जीववाचीति शेषः । अन्यत्रापि इति ॥ १० ॥