ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तेजोऽतस्तथाह्याह ॥ १० ॥
एवं प्राप्ते, उच्यतेतेजः अतः मातरिश्वनः जायत इतिकस्मात् ? तथा ह्याह — ‘वायोरग्निःइतिअव्यवहिते हि तेजसो ब्रह्मजत्वे सति, असति वायुजत्वेवायोरग्निःइतीयं श्रुतिः कदर्थिता स्यात्ननु क्रमार्थैषा भविष्यतीत्युक्तम्; नेति ब्रूमःतस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति पुरस्तात् सम्भवत्यपादानस्य आत्मनः पञ्चमीनिर्देशात् , तस्यैव सम्भवतेरिहाधिकारात् , परस्तादपि तदधिकारे पृथिव्या ओषधयः’ (तै. उ. २ । १ । १) इत्यपादानपञ्चमीदर्शनात्वायोरग्निःइत्यपादानपञ्चम्येवैषेति गम्यतेअपि , वायोरूर्ध्वमग्निः सम्भूतःइति कल्प्यः उपपदार्थयोगः, कॢप्तस्तु कारकार्थयोगःवायोरग्निः सम्भूतः इतितस्मादेषा श्रुतिर्वायुयोनित्वं तेजसोऽवगमयतिनन्वितरापि श्रुतिर्ब्रह्मयोनित्वं तेजसोऽवगमयति — ‘तत्तेजोऽसृजतइति; ; तस्याः पारम्पर्यजत्वेऽप्यविरोधात्यदापि ह्याकाशं वायुं सृष्ट्वा वायुभावापन्नं ब्रह्म तेजोऽसृजतेति कल्प्यते, तदापि ब्रह्मजत्वं तेजसो विरुध्यते, यथातस्याः शृतम् , तस्या दधि, तस्या आमिक्षेत्यादिदर्शयति ब्रह्मणो विकारात्मनावस्थानम्तदात्मानꣳ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इतितथा ईश्वरस्मरणं भवतिबुद्धिर्ज्ञानमसंमोहः’ (भ. गी. १० । ४) इत्याद्यनुक्रम्य भवन्ति भावा भूतानां मत्त एव पृथग्विधाः’ (भ. गी. १० । ५) इतियद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते, तथापि सर्वस्य भावजातस्य साक्षात्प्रणाड्या वा ईश्वरवंश्यत्वात्एतेनाक्रमसृष्टिवादिन्यः श्रुतयो व्याख्याताः; तासां सर्वथोपपत्तेः, क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेःप्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते, अव्यवहितजन्यत्वम्इत्यविरोधः ॥ १० ॥

यदि पुनरित्थमस्याः श्रुतेरर्थो नाश्रीयते तर्हि विरुद्धार्थैव श्रुतिरियं पूर्वोक्तश्रुतिभिरिति पूर्वपक्षमनुभाष्य सिद्धान्तमाह -

एवं प्राप्त इति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

हेतुमेव व्यतिरेकद्वारा विवृणोति -

अव्यवहिते हीति ।

कदर्थिता पीडिता बाधितेति यावत् । तेजसो वायुयोनित्वं पञ्चमीश्रुत्या निर्धारितं, ब्रह्मयोनित्वं तु तस्य बहुभवनाशंसनलिङ्गादवगतम् , अतः श्रुत्या लिङ्गं बाधित्वा वायुयोनित्वं मुख्यमादाय लिङ्गं परम्परया ब्रह्मयोनित्वविषयं विवक्षमाणेन न्यायेन ब्रह्मवायुसमुच्चयमेवाभ्युपगमयतीति भावः ।

पञ्चमीश्रुतेरुक्तां गतिं पूर्ववादी स्मारयति -

नन्विति ।

न क्रमार्थत्वं पञ्चम्या युक्तं, पूर्वोत्तरवाक्योपादानेनापादानार्थत्वप्रतीतेरिति परिहरति -

नेतीति ।

उत्तरवाक्यमिहेत्युच्यते । इतश्चापादानार्थत्वमेव पञ्चम्या न क्रमार्थत्वमित्याह -

अपि चेति ।

प्रकरणादुपादानाख्यापादनकारकाभिधायित्वं पञ्चम्याः सिद्धं परित्यज्य पदार्थान्तरयोगो न कल्पयितुं शक्यते । क्लृप्तकल्प्ययोर्मध्ये क्लृप्तस्यैव बलीयस्त्वादित्यर्थः ।

पञ्चमीश्रुतेरक्रमार्थत्वे फलितमाह –

तस्मादिति ।

श्रुतिबलात् तेजसो वायुजत्वे तद्बलादेव ब्रह्मजत्वमपि तस्यास्थेयमतः श्रुत्योर्मिथो विरोधः स्यादिति शङ्कते –

नन्विति ।

‘वायोरग्निः’ इति साक्षात् तेजसो वायुजत्वमुच्यते, ‘तत्तेजोऽसृजत’ इति त्वाकाशवायुद्वारा तस्य ब्रह्मजत्वमिति विरोधसमाधिरिति समाधत्ते –

न, तस्या इति ।

अविरोधमेव साधयति –

यदापीति ।

साक्षात्पारम्पर्याभ्यां कारणत्वे दृष्टान्तमाह –

यथेति ।

तस्या धेनोः शृतं तप्तं क्षीरं विवक्षितम् । तदेव दधिसंसृष्टमामिक्षेति भेदः । तत्र क्षीरस्य दध्नि साक्षात्कारणत्वेऽपि गव्यं दधीति प्रयोगो दृष्टस्तथाऽत्रापीत्यर्थः ।

तर्हि ब्रह्मणो वायुभावापत्तौ किं प्रमाणमित्याशङ्क्याऽऽह –

दर्शयति चेति ।

पारम्पर्यजस्यापि तज्जत्वव्यपदेशयोग्यत्वे प्रमाणमाह –

तथा चेति ।

अन्तःकरणादिभ्यः स्वकारणेभ्यो बुद्ध्यादीनामयशोन्तानामुत्पत्तिदर्शनान्मत्त एवेत्यवधारणमयुक्तमित्याशङ्क्याऽऽह –

यद्यपीति ।

प्राणाड्या परम्परयेति यावत् । ईश्वरवंश्यत्वात् तद्वंशोद्भवत्वादिदमवधारणस्मरणमिति शेषः । सर्वस्येत्यस्मादर्वाक् तथापीति वक्तव्यम् । पारम्पर्यविषयत्वं ‘तत्तेजोऽसृजत’ इति श्रुतेरुक्तम् ।

इदानीम् ‘इदं सर्वमसृजत’ इत्यादिश्रुतेरपि पारम्पर्यविषयत्वमेषितव्यमित्याह –

एतेनेति ।

सर्वस्य साक्षाद् ब्रह्मजत्वाभावे कथं तासामुपपत्तिः, तत्राह –

तासामिति ।

सर्वथा साक्षात्परम्परया वा । सर्वस्य ब्रह्मजत्वमात्रेणाक्रमवादिनीनां श्रुतीनामुपपत्तेरितरश्रुतिवशात् पारम्पर्यमेवाश्रयणीयमित्यर्थः ।

क्रमश्रुतीनामेवाक्रमश्रुतिवशान्नयनं किं न स्यादित्याशङ्क्याऽऽह –

क्रमवदिति ।

अन्यथा पारम्पर्यमन्तरेणेति यावत् । न साक्षात्कारणविषयत्वमिति शेषः ।

अव्यवधानेन ब्रह्मजत्वाभावे कथं प्रतिज्ञेत्याशङ्क्याऽऽह –

प्रतिज्ञाऽपीति ।

अक्रमश्रुतीनां क्रमश्रुत्यनुसारित्वेन मिथो विरोधाभावात् तेजसो वियत्पवनद्वारा कारणे ब्रह्मणि समन्वयः सिद्ध्यतीत्युपसंहरति –

इत्यविरोध इति ॥१०॥

विषयं विविच्य सहेतुं संशयमाह -

स इति ।

श्रुतिविप्रतिपत्ति विशदयति -

कासुचिदिति ।

‘यथा सुदीप्तात्पावकात्’ इत्याद्या जीवोत्पत्तिवादिन्यः श्रुतयः ।

कासुचिदिति ।

‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्याद्यास्वित्यर्थः ।

प्रवेशवाक्येऽपि जन्मधीरस्तीत्याशङ्क्याह -

नचेति ।

श्रुतिविप्रतिपत्त्या शङ्कामुक्त्वा पूर्वपक्षयति -

तत्रेति ।

अत्र चोक्तश्रुतिविप्रतिपत्तिनिरासेन समन्वयदृढीकरणात्पादादिसङ्गतयः ।

पूर्वपक्षे श्रुतीनां विप्रतिपत्तेरनेकवाक्यत्वेन विरोधादप्रामाण्ये समन्वयासिद्धिः । सिद्धान्ते श्रुतीनामविप्रतिपत्तेरेकवाक्यत्वादविरोधे नित्ये प्रत्यग्ब्रह्मणि समन्वयसिद्धिः । जन्मप्रयोजकाविशेषत्वविरहान्नोत्पत्तिरित्याह -

कुत इति ।

आत्मनस्तद्बिरहे विवदमानो वियदुत्पत्तिन्यायेन प्रत्याह -

प्रतिज्ञेति ।

तदनुपरोधं साधयति -

एकस्मिन्निति ।

अकार्यत्वेऽपि प्रतिज्ञासिद्धिश्चेत्कि तत्कार्यत्वेनेत्याशङ्कय तस्य परस्माद्भिन्नत्वमभिन्नत्वं वेति विकल्प्याद्यं दूषयति -

तत्त्वान्तरत्वे त्विति ।

द्वितीयं निरस्यति -

नचेति ।

लक्षणमेदं साधयति -

अपहतेति ।

नित्यत्वश्रुतिविरोधमाशङ्क्यानुमानानुगृहीतानित्यत्वश्रुतिविरोधात्तासामुपचरितार्थतेति मत्वाह -

विभागाच्चेति ।

तत्त्वमस्यादिवाक्यापेक्षितार्थावेदकत्वान्नित्यत्वान्नित्यत्वश्रुतीनां नोपचरितार्थतेत्याशङ्क्य नित्यनित्ययोरपि कार्यकारणयोर्मृद्धटवत्तादात्म्यसम्भवादविरुद्धं महावाक्यमित्यभिप्रेत्यानित्यत्वश्रुत्यनुग्राहकानुमानाङ्गव्याप्तिमाह -

यावानिति ।

आकाशादेर्विभक्तत्वेऽपि विकारत्वासिद्धेरसिद्धा व्याप्तिरित्याशङ्क्याह -

तस्येति ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -

जीवेति

प्रतिदेहमात्मविभागे कर्मतत्फलव्यवस्थानुपपत्तिं प्रमाणयितुं विशेषेण व्याप्तिं पक्षधर्मतां चेक्त्वानुमानमाह -

तस्येति ।

यदनुग्राहकमनुमानमुक्तं तां श्रुतिमाह -

अपिचेति ।

जीवस्य मुख्योत्पत्तिरत्र नेष्टेत्याशङ्क्य प्राणादीनां तथोत्पत्तिदृष्टेः समभिव्याहाराज्जीवस्यापि तादृश्येव सेति मत्वाह -

प्राणादेरिति ।

किञ्चौपाधिकं जन्म चेदुपाघेरेव तद्वाच्यं नोभयोरित्याशयेनाह -

सर्वएव इति ।

जन्ममात्रार्थां श्रुतिमुक्त्वा जन्मनाशार्थं श्रुत्यन्तरमाह -

यथेति ।

भावानामेवोत्पत्तिलयावत्रोक्तौ न जीवानामित्याशङ्क्याह -

सरूपेति ।

भावशब्दो जीववाचीति शेषः । अन्यत्रापि इति ॥ १० ॥