अधिकरणस्य विषयमाह –
ता इति ।
अन्नशब्दान्महाभूतप्रकरणाच्च दर्शितश्रुतिं विषयीकृत्य विचारप्रयोजकं सन्देहमाह -
तत्रेति ।
अभ्यवहार्यम् । भक्षणयोग्यमिति यावत् ।
अप्कार्यविगानद्वारा कारणसमन्वये विगानं दर्शयन्पूर्वपक्षयति -
तत्र प्राप्तमिति ।
‘ता अन्नमसृजन्त’ इति श्रुतेः ‘अद्भ्वः पृथिवी’ इति श्रुतेश्च विरोधनिराकरणद्वारेण परम्परया पृथिवीकारणे ब्रह्मणि समन्वयप्रतिपादनादत्र पादादिसङ्गतिसौलभ्यमिति मन्तव्यम् ।
उक्तश्रुत्योरनेकवाक्यतया विरोधादप्रामाण्ये पूर्वपक्षे समन्वयासिद्धिः, सिद्धान्ते त्वेकवाक्यत्वेनाविरोधात्प्रामाण्ये तत्सिद्धिः । प्रकरणादिना पृथिवीप्रतीतौ कथमन्नशब्देन व्रीह्यादि ग्राह्यमित्याशङ्क्य श्रुतेस्ततो बलीयस्त्वादित्याह -
तत्र हीति ।
अन्नशब्देन व्रीह्यादि ग्राह्यमित्यत्र लिङ्गमपि दर्शयति -
वाक्यशेषोऽपीति ।
तस्मादिति । अद्भ्योऽन्नस्य सृष्टत्वादिति यावत् ।
तदेव ।
तत्रैवेत्यर्थः ।
वर्षणे सत्यन्नस्य बहुभवनं श्रुतमित्येतावता कथमन्नशब्दस्य पृथिवीव्यावृत्तिरित्याशङ्क्याह -
व्रीहीति ।
श्रुतिलिङ्गाभ्यामन्नशब्दस्य प्रतिद्धार्थत्वे सिद्धे ‘ता अन्नमसृजन्त’ इत्यादिश्रुतेः श्रुत्यन्तरेण ‘अद्भ्वः पृथिवी’ इत्यादिना विरोध इति पूर्वपक्षोपसंहार इतिशब्दार्थः ।
पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञाभागं व्याचष्टे -
एवं प्राप्त इति ।
श्रुतिलिङ्गाभ्यामन्नशब्दस्य व्रीह्यादिविषयत्वे दर्शिते पृथिवीविषयत्वं हेत्वभावादयुक्तमिति शङ्कते -
कस्मादिति ।
अन्नशब्दस्य पृथिवीविषयत्वे सूत्रोक्तं हेतुत्रयं विभज्यावतारयति -
अधिकारादिति ।
अधिकारशब्दितं प्रकरणमादौ विवृणोति -
अधिकार इति ।
प्रकरणस्य महाभूतविषयत्वेऽपि परम्परया व्रीह्यादिविषयत्वमन्नशब्दस्य किं न स्यादित्याशङ्क्य प्रबलप्रमाणं विना परम्पराकल्पनमनुचितमित्याह -
तत्रेति ।
प्रकरणवल्लिङ्गमपि सिद्धान्ते साधकमस्तीत्याह -
तथेति ।
लिङ्गस्यान्यथासिद्धिं शङ्कित्वा दूषयति -
नहीति ।
कृष्णत्वनियमराहित्यं पृथिव्यामपि तुल्यमित्यसिद्धिं लिङ्गस्य चोदयति -
नन्विति ।
पृथिवीप्रदेशानामकृष्णानामपि प्रथनात्तत्र कृष्णत्वनियमाभावादसम्भवि लिङ्गमिति, तन्निराकरोति -
नायमिति ।
बाहुल्यमेव प्रकटयति -
भूयिष्ठं हीति ।
वाक्यशेषे यदन्नस्य कृष्णत्वं श्रुतं तत्तस्य पृथिवीत्वं गमयतीत्यत्र पौराणिकसंमतिमाह -
पौराणिका अपीति ।
प्रकरणलिङ्गे दर्शयित्वा स्थानमपि सिद्धान्ते दर्शयति -
श्रुत्यन्तरमपीति ।
समानाधिकारम् ।
महाभूतसृष्टिविषयत्वेन समानप्रकरणमिति यावत् ।
तत्रैव बृहदारण्यकश्रुतिमुदाहरति -
तद्यदिति ।
तत्तत्र सृष्टिकाले यदपां यस्तासां शरो मण्डो घनीभावोऽभूदिति प्रकृतः शरो निरुच्यते । स हि समहन्यत सङ्घातात्मना परिणतः । सोऽपां कठिनाकारपरिणामः पृथिव्यभवत् । विशेष्यपृथिव्यपेक्षया सेत्युक्तम् । चकारस्तु श्रुत्यन्तरमितिपदानुकर्षणार्थः ।
तैत्तिरीयके तेज आरभ्य चतुर्थपर्यायपठितस्यैव व्रीह्यादिरूपत्वात्तृतीयपर्यायस्य पृथिवीविषयत्वाच्छान्दोग्येऽपि तस्य तद्विषयत्वं युक्तमिति स्थानमेव प्रकटयति -
पृथिव्यास्त्विति ।
प्रमाणत्रयफलं निगमयति -
एवमिति ।
अन्नशब्दश्रुत्या व्रीह्यादिप्रतिपत्तिरुक्तेत्याशङ्क्याह -
प्रसिद्धिरपीति ।
लिङ्गानुगृहीता श्रुतिर्बलवती कुतो बाध्यत इत्याशङ्क्य त्वदुक्तं लिङ्गं सिद्धान्तानुकूलमित्याह -
वाक्यशेषोऽपीति ।
प्रकरणादिभिर्यदा पृथिवी परिगृह्यते तदा श्रुतिलिङ्गयोर्नात्यन्तबाधः । स्वार्थापरित्यागेन तदाकारपरिणतायां पृथिव्यां प्रवृत्त्युपपत्तेः । श्रुतिलिङ्गाभ्यामन्नमात्रपरिग्रहे हेतुलिङ्गप्रकरणादीनामत्यन्तबाधः स्यात् । तेषां पृथिवीविषयत्वात्तदनुपादाने निरवकाशत्वात् । तत्र प्रमाणसमुदाययोरितरेतरविरोधेऽन्यतरस्यात्यन्तबाधेनान्यतरोपादानाद्वारमन्यतरस्याल्पबाधेनान्यतरोपादानमिति श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वा प्रकरणादिभिरन्नाकारपरिणता पृथिव्येव ग्रहीतव्येति मन्वानः सिद्धान्तमुपसंहरति -
तस्मादिति ।
तैत्तिरीयश्रुत्यनुसारेण छन्दोगश्रुतिनयनात्तयोरविरोधादन्नभावमापन्ने पृथिवीकारणे ब्रह्मणि समन्वयोपपत्तिरिति निगमयतुमितीत्युक्तम् ॥१२॥