ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥
ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त’ (छा. उ. ६ । २ । ४) इति श्रूयतेतत्र संशयःकिमनेनान्नशब्देन व्रीहियवाद्यभ्यवहार्यं वा ओदनाद्युच्यते, किं वा पृथिवीतितत्र प्राप्तं तावत्व्रीहियवादि ओदनादि वा परिग्रहीतव्यमितितत्र ह्यन्नशब्दः प्रसिद्धो लोकेवाक्यशेषोऽप्येतमर्थमुपोद्बलयति — ‘तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवतिइति व्रीहियवाद्येव हि सति वर्षणे बहु भवति, पृथिवीति

अधिकरणस्य विषयमाह –

ता इति ।

अन्नशब्दान्महाभूतप्रकरणाच्च दर्शितश्रुतिं विषयीकृत्य विचारप्रयोजकं सन्देहमाह -

तत्रेति ।

अभ्यवहार्यम् । भक्षणयोग्यमिति यावत् ।

अप्कार्यविगानद्वारा कारणसमन्वये विगानं दर्शयन्पूर्वपक्षयति -

तत्र प्राप्तमिति ।

‘ता अन्नमसृजन्त’ इति श्रुतेः ‘अद्भ्वः पृथिवी’ इति श्रुतेश्च विरोधनिराकरणद्वारेण परम्परया पृथिवीकारणे ब्रह्मणि समन्वयप्रतिपादनादत्र पादादिसङ्गतिसौलभ्यमिति मन्तव्यम् ।

उक्तश्रुत्योरनेकवाक्यतया विरोधादप्रामाण्ये पूर्वपक्षे समन्वयासिद्धिः, सिद्धान्ते त्वेकवाक्यत्वेनाविरोधात्प्रामाण्ये तत्सिद्धिः । प्रकरणादिना पृथिवीप्रतीतौ कथमन्नशब्देन व्रीह्यादि ग्राह्यमित्याशङ्क्य श्रुतेस्ततो बलीयस्त्वादित्याह -

तत्र हीति ।

अन्नशब्देन व्रीह्यादि ग्राह्यमित्यत्र लिङ्गमपि दर्शयति -

वाक्यशेषोऽपीति ।

तस्मादिति । अद्भ्योऽन्नस्य सृष्टत्वादिति यावत् ।

तदेव ।

तत्रैवेत्यर्थः ।

वर्षणे सत्यन्नस्य बहुभवनं श्रुतमित्येतावता कथमन्नशब्दस्य पृथिवीव्यावृत्तिरित्याशङ्क्याह -

व्रीहीति ।

श्रुतिलिङ्गाभ्यामन्नशब्दस्य प्रतिद्धार्थत्वे सिद्धे ‘ता अन्नमसृजन्त’ इत्यादिश्रुतेः श्रुत्यन्तरेण ‘अद्भ्वः पृथिवी’ इत्यादिना विरोध इति पूर्वपक्षोपसंहार इतिशब्दार्थः ।

पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञाभागं व्याचष्टे -

एवं प्राप्त इति ।

श्रुतिलिङ्गाभ्यामन्नशब्दस्य व्रीह्यादिविषयत्वे दर्शिते पृथिवीविषयत्वं हेत्वभावादयुक्तमिति शङ्कते -

कस्मादिति ।

अन्नशब्दस्य पृथिवीविषयत्वे सूत्रोक्तं हेतुत्रयं विभज्यावतारयति -

अधिकारादिति ।

अधिकारशब्दितं प्रकरणमादौ विवृणोति -

अधिकार इति ।

प्रकरणस्य महाभूतविषयत्वेऽपि परम्परया व्रीह्यादिविषयत्वमन्नशब्दस्य किं न स्यादित्याशङ्क्य प्रबलप्रमाणं विना परम्पराकल्पनमनुचितमित्याह -

तत्रेति ।

प्रकरणवल्लिङ्गमपि सिद्धान्ते साधकमस्तीत्याह -

तथेति ।

लिङ्गस्यान्यथासिद्धिं शङ्कित्वा दूषयति -

नहीति ।

कृष्णत्वनियमराहित्यं पृथिव्यामपि तुल्यमित्यसिद्धिं लिङ्गस्य चोदयति -

नन्विति ।

पृथिवीप्रदेशानामकृष्णानामपि प्रथनात्तत्र कृष्णत्वनियमाभावादसम्भवि लिङ्गमिति, तन्निराकरोति -

नायमिति ।

बाहुल्यमेव प्रकटयति -

भूयिष्ठं हीति ।

वाक्यशेषे यदन्नस्य कृष्णत्वं श्रुतं तत्तस्य पृथिवीत्वं गमयतीत्यत्र पौराणिकसंमतिमाह -

पौराणिका अपीति ।

प्रकरणलिङ्गे दर्शयित्वा स्थानमपि सिद्धान्ते दर्शयति -

श्रुत्यन्तरमपीति ।

समानाधिकारम् ।

महाभूतसृष्टिविषयत्वेन समानप्रकरणमिति यावत् ।

तत्रैव बृहदारण्यकश्रुतिमुदाहरति -

तद्यदिति ।

तत्तत्र सृष्टिकाले यदपां यस्तासां शरो मण्डो घनीभावोऽभूदिति प्रकृतः शरो निरुच्यते । स हि समहन्यत सङ्घातात्मना परिणतः । सोऽपां कठिनाकारपरिणामः पृथिव्यभवत् । विशेष्यपृथिव्यपेक्षया सेत्युक्तम् । चकारस्तु श्रुत्यन्तरमितिपदानुकर्षणार्थः ।

तैत्तिरीयके तेज आरभ्य चतुर्थपर्यायपठितस्यैव व्रीह्यादिरूपत्वात्तृतीयपर्यायस्य पृथिवीविषयत्वाच्छान्दोग्येऽपि तस्य तद्विषयत्वं युक्तमिति स्थानमेव प्रकटयति -

पृथिव्यास्त्विति ।

प्रमाणत्रयफलं निगमयति -

एवमिति ।

अन्नशब्दश्रुत्या व्रीह्यादिप्रतिपत्तिरुक्तेत्याशङ्क्याह -

प्रसिद्धिरपीति ।

लिङ्गानुगृहीता श्रुतिर्बलवती कुतो बाध्यत इत्याशङ्क्य त्वदुक्तं लिङ्गं सिद्धान्तानुकूलमित्याह -

वाक्यशेषोऽपीति ।

प्रकरणादिभिर्यदा पृथिवी परिगृह्यते तदा श्रुतिलिङ्गयोर्नात्यन्तबाधः । स्वार्थापरित्यागेन तदाकारपरिणतायां पृथिव्यां प्रवृत्त्युपपत्तेः । श्रुतिलिङ्गाभ्यामन्नमात्रपरिग्रहे हेतुलिङ्गप्रकरणादीनामत्यन्तबाधः स्यात् । तेषां पृथिवीविषयत्वात्तदनुपादाने निरवकाशत्वात् । तत्र प्रमाणसमुदाययोरितरेतरविरोधेऽन्यतरस्यात्यन्तबाधेनान्यतरोपादानाद्वारमन्यतरस्याल्पबाधेनान्यतरोपादानमिति श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वा प्रकरणादिभिरन्नाकारपरिणता पृथिव्येव ग्रहीतव्येति मन्वानः सिद्धान्तमुपसंहरति -

तस्मादिति ।

तैत्तिरीयश्रुत्यनुसारेण छन्दोगश्रुतिनयनात्तयोरविरोधादन्नभावमापन्ने पृथिवीकारणे ब्रह्मणि समन्वयोपपत्तिरिति निगमयतुमितीत्युक्तम् ॥१२॥