ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्ति, आहोस्वित्परमेश्वर एव तेन तेन आत्मनावतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति सन्देहे सति, प्राप्तं तावत्स्वयमेव सृजन्तीतिकुतः ? आकाशाद्वायुर्वायोरग्निः’ (तै. उ. २ । १ । १) इत्यादिस्वातन्त्र्यश्रवणात्ननु अचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा; नैष दोषःतत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति भूतानामपि चेतनत्वश्रवणादिति
एवं प्राप्ते, अभिधीयते एव परमेश्वरस्तेन तेन आत्मना अवतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीतिकुतः ? तल्लिङ्गात्तथा हि शास्त्रम्यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति’ (बृ. उ. ३ । ७ । ३) इत्येवंजातीयकम्साध्यक्षाणामेव भूतानां प्रवृत्तिं दर्शयतितथा सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इति प्रस्तुत्य, सच्च त्यच्चाभवत्’ (तै. उ. २ । ६ । १) , तदात्मानꣳ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इति तस्यैव सर्वात्मभावं दर्शयतियत्तु ईक्षणश्रवणमप्तेजसोः, तत्परमेश्वरावेशवशादेव द्रष्टव्यम्नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इतीक्षित्रन्तरप्रतिषेधात् , प्रकृतत्वाच्च सत ईक्षितुः तदैक्षत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इत्यत्र ॥ १३ ॥

पूर्वेष्वधिकरणेषु महाभूतानां पूर्वस्मात्पूर्वस्मादुत्तरस्योत्तरस्योत्तरस्य सृष्टिरुपदिष्टा । सम्प्रति भूतानां स्वकार्ये स्वातन्त्र्याद्ब्रह्मणः सर्वकारणत्वश्रुतिविरोधः स्यादित्याशङ्क्याह -

तदभिध्यानादिति ।