ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
एवं प्राप्ते, अभिधीयते एव परमेश्वरस्तेन तेन आत्मना अवतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीतिकुतः ? तल्लिङ्गात्तथा हि शास्त्रम्यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति’ (बृ. उ. ३ । ७ । ३) इत्येवंजातीयकम्साध्यक्षाणामेव भूतानां प्रवृत्तिं दर्शयतितथा सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इति प्रस्तुत्य, सच्च त्यच्चाभवत्’ (तै. उ. २ । ६ । १) , तदात्मानꣳ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इति तस्यैव सर्वात्मभावं दर्शयतियत्तु ईक्षणश्रवणमप्तेजसोः, तत्परमेश्वरावेशवशादेव द्रष्टव्यम्नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इतीक्षित्रन्तरप्रतिषेधात् , प्रकृतत्वाच्च सत ईक्षितुः तदैक्षत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इत्यत्र ॥ १३ ॥

‘सोऽकामयत’ इति परमेश्वरं प्रस्तुत्य ‘तदात्मानं स्वयमकुरुत’ इति कर्तृत्वं श्रुतं, ‘यः पृथिव्यां तिष्ठन्’ इत्यादिना चेश्वरस्य नियन्तृत्वमुक्तं, तत्कुतो देवतानां स्वातन्त्र्येण कार्ये नियन्तृत्वमित्याशङ्क्य प्रस्तावलिङ्गाभ्यामवद्योतितं ब्रह्मणः सर्वनियन्तृत्वमभिमानिदेवताद्वारा पारम्पर्येणापि सिध्यति, अन्यथा ब्रह्मकारणत्वश्रुतेर्भूतकारणत्वश्रुतेश्च मिथो विरोधः स्यादित्युपसंहर्तुमितिशब्दः । आकाशादिशब्दैर्न देवतालक्षणा, मुख्यार्थबाधाभावात् , पञ्चम्यश्चापादानार्थास्तत्र रूढतरत्वादिति सिद्धान्तयति -

एवं प्राप्त इति ।

भूतानां स्वातन्त्र्यश्रवणान्नास्ति स्वविकारसृष्टावीश्वरापेक्षेत्युक्तत्वादुक्तप्रतिज्ञानुपपत्तिरिति शङ्कते -

कुत इति ।

सौत्रं हेतुमादाय विभजते -

तल्लिङ्गादिति ।

इतश्च भूतानामयुक्ता स्वातन्त्र्येण प्रवृत्तिरित्याह -

तथेति ।

ब्रह्माकाशयोरन्यतरपदार्थोपादानेऽन्यतरपदार्थबाधप्रसङ्गात्पञ्चम्येवकारश्रुतिभ्यामवगतस्वातन्त्र्ययोस्तयोरेकतरस्याप्यबाधेन समुच्चयोपादानेन नैरपेक्ष्यमात्रं बाधित्वा पूर्वपूर्वभूताकारपरिणतं ब्रह्मोत्तरोत्तरभूतोपादानमुपेयमिति भावः ।

पूर्वपक्षबीजमनूद्य तदभिध्यानादेवेति सूत्रावयवयोजनया निराकरोति -

यत्त्विति ।

परमेश्वरस्य भूतेषु प्रवेशात्तदीयमेवाभिध्यानमप्तेजसोरुपचर्यते, तन्न भूतानां चेतनत्वाशङ्केत्यर्थः ।

भूतानां तदभिमानिचेतनदेवताद्वारेणेक्षणसिद्धौ किमीश्वरेणेत्याशङ्क्याह -

नान्य इति ।

भवतु वा चेतनानां देवतात्मनां भिन्नत्वं तथापि किङ्कारणमिति विशये परमेश्वरस्य कारणत्वेन क्लृप्तत्वात्स एव द्विधा कारणमित्याह -

प्रकृतत्वादिति ।

ब्रह्मणः स्वरूपेण पररूपेण सर्वकारणत्वे सर्वस्रष्टृब्रह्मसमन्वयस्य भूतस्वातन्त्र्यस्रष्टृत्वश्रुतिविरोधो नेति सिद्धमिति भावः ॥ १३ ॥