ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥
एवं प्राप्तं ततो ब्रूमःविपर्ययेण तु प्रलयक्रमः, अतः उत्पत्तिक्रमात् , भवितुमर्हतितथा हि लोके दृश्यतेयेन क्रमेण सोपानमारूढः, ततो विपरीतेन क्रमेणावरोहतीतिअपि दृश्यतेमृदो जातं घटशरावादि अप्ययकाले मृद्भावमप्येति, अद्भ्यश्च जातं हिमकरकादि अब्भावमप्येतीतिअतश्चोपपद्यत एतत्यत्पृथिवी अद्भ्यो जाता सती स्थितिकालव्यतिक्रान्तौ अपः अपीयात्आपश्च तेजसो जाताः सत्यः तेजः अपीयुःएवं क्रमेण सूक्ष्मं सूक्ष्मतरं अनन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं ब्रह्माप्येतीति वेदितव्यम् हि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यःस्मृतावप्युत्पत्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः — ‘जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयतेज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयतेइत्येवमादौउत्पत्तिक्रमस्तु उत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति; असौ अयोग्यत्वादप्ययेनाकाङ्क्ष्यते हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः, कारणाप्यये कार्यस्यावस्थानानुपपत्तेःकार्याप्यये तु कारणस्यावस्थानं युक्तम्मृदादिष्वेवं दृष्टत्वात् ॥ १४ ॥

महाभूतानामुत्पत्तिक्रमेण प्रलये क्रमवति सति सर्वप्रलयाधारे ब्रह्मणि समन्वयो न्यायानुगृहीतसृष्टिक्रमश्रुतिविरुद्धो न सिध्यतीत्युपसंहरति -

एवमिति ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

तत इति ।

लोकदृष्टपदार्थबोधाधीना हि श्रुतिः । अतः श्रुतिसंनिहितादपि लौकिकक्रमस्य संनिहिततरत्वात्तेन तद्बाधनं युक्तमित्युपपद्यत इति सूत्रावयवं व्याचष्टे -

तथाहीति ।

चकारसूचितमुपपत्त्यन्तरमाह -

अपिचेति ।

सत्यपीत्थं लौकिके दर्शने प्रकृते किमायातमित्याशङ्क्य फलपरत्वेनापि सूत्रावयवं योजयति -

अतश्चेति ।

पृथिव्यादीनामबादौ लयश्चेद्ब्रह्मणः सर्वकार्यलयाधारत्वं कथमित्याशङ्क्य तत्तत्कारणात्मके ब्रह्मणि तत्तत्कार्यलयाभ्युपगमात्तत्रैव पर्यवसानमिति मत्वाऽऽह -

एवं क्रमेणेति ।

पारम्पर्यं परित्यज्य साक्षाद्ब्रह्मणि सर्वकार्यलयाभ्युपगमो बलीयानित्याशङ्क्याह -

नहीति ।

घटादेर्मृत्कार्यस्य परमाणुषु लयानभ्युपगमात् । अन्यथा घटादिनाशे परमाणूनामतीन्द्रियत्वान्न किञ्चिदुपलभ्येतेति भावः ।

लौकिकन्यायवशादुत्पत्तिक्रमविपरीतं प्रलयक्रमं प्रदर्श्य तत्रैव स्मृतिं संवादयति -

स्मृतावपीति ।

‘वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्रलीयते’ इति वाक्यमादिशब्दार्थः ।

स्मार्तकमाल्लौकिकन्यायाच्च श्रौतक्रमस्य संनिकृष्टत्वादाकाङ्क्षासंनिधिभ्यां तस्यैवोपादेयत्वमित्याशङ्क्य योग्यत्वाभावान्मैवमित्याह -

उत्पत्तीति ।

आकाङ्क्षापि तत्र नास्तीत्याह -

नचेति ।

अयोग्यविषयाभ्यामाकाङ्क्षासंनिधिभ्यां विप्रकृष्टविषयेऽप्याकाङ्क्षायोग्यत्वे बलवत्तरे सम्बन्धस्य योग्यतानिमित्तत्वादिति भावः ।

अयोग्यत्वादित्युक्तं साधयति -

नहीति ।

कार्यकारणयोरभेदे कार्याभावे कारणवत्तदभावेऽपि कार्यं स्यादित्याशङ्क्याह -

कार्येति ।

तदेवं ब्रह्मणः सर्वप्रलयाधारत्वात्तत्र समन्वयस्य ‘कारणनाशात्कार्यनाश’ इति न्यायानुगृहीतसृष्टिक्रमश्रुत्या न विरोधोऽस्तीति सिद्धमिति भावः ॥ १४ ॥