मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥
भूतानामु
त्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां
भवत
इत्युक्तम्
;
आत्मादिरुत्पत्तिः
प्रलयश्चात्मान्तः
—
इत्यप्युक्तम्
।
सेन्द्रियस्य
तु
मनसो
बुद्धेश्च
सद्भावः
प्रसिद्धः
श्रुतिस्मृत्योः
—
‘
बुद्धिं
तु
सारथिं
विद्धि
मनः
प्रग्रहमेव
च
।’ (क. उ. १ । ३ । ३)
‘
इन्द्रियाणि
हयानाहुः
’ (क. उ. १ । ३ । ४)
इत्यादिलिङ्गेभ्यः
।
तयोर
पि
कस्मिंश्चिदन्तराले
क्रमेणोत्पत्तिप्रलयावुपसङ्ग्राह्यौ
,
सर्वस्य
वस्तुजातस्य
ब्रह्मजत्वाभ्युपगमात्
।
अपि
च
आथर्वणे
उत्पत्तिप्रकरणे
भूतानामात्मनश्चान्तराले
करणान्यनुक्रम्यन्ते
—
‘
एतस्माज्जायते
प्राणो
मनः
सर्वेन्द्रियाणि
च
।
खं
वायुर्ज्योतिरापः
पृथिवी
विश्वस्य
धारिणी
’ (मु. उ. २ । १ । ३)
इति
।
तस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो
भूतानामिति
चेत्
,
न
;
अविशेषात्
—
यदि
तावद्भौतिकानि
करणानि
,
ततो
भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ
भवत
इति
नैतयोः
क्रमान्तरं
मृग्यम्
।
भवति
च
भौतिकत्वे
लिङ्गं
करणानाम्
—
‘
अन्नमयं
हि
सोम्य
मन
आपोमयः
प्राणस्तेजोमयी
वाक्
’ (छा. उ. ६ । ५ । ४)
इत्येवंजातीयकम्
।
व्यपदेशोऽपि
क्वचिद्भूतानां
करणानां
च
ब्राह्मणपरिव्राजकन्यायेन
नेतव्यः
।
अथ
त्व
भौतिकानि
करणानि
,
तथा
पि
भूतोत्पत्तिक्रमो
न
करणैर्विशेष्यते
—
प्रथमं
करणान्युत्पद्यन्ते
चरमं
भूतानि
,
प्रथमं
वा
भूतान्युत्पद्यन्ते
चरमं
करणानीति
।
आथर्वणे
तु
समाम्नायक्रममात्रं
करणानां
भूतानां
च
,
न
तत्रोत्पत्तिक्रम
उच्यते
।
तथा
अन्यत्रापि
पृथगेव
भूतक्रमात्करणक्रम
आम्नायते
— ‘
प्रजापतिर्वा
इदमग्र
आसीत्स
आत्मानमैक्षत
स
मनोऽसृजत
तन्मन
एवासीत्तदात्मानमैक्षत
तद्वाचमसृजत
’
इत्यादिना
।
तस्मान्ना
स्ति
भूतोत्पत्तिक्रमस्य
भङ्गः
॥ १५ ॥
अन्तरेति
;
पूर्वोक्तभूतोत्पत्तिप्रलयक्रमस्य करणसृष्ट्या बाधमाशङ्क्य परिहरति -
अन्तरेति ।