ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥
भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम्; आत्मादिरुत्पत्तिः प्रलयश्चात्मान्तःइत्यप्युक्तम्सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योःबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव ।’ (क. उ. १ । ३ । ३) इन्द्रियाणि हयानाहुः’ (क. उ. १ । ३ । ४) इत्यादिलिङ्गेभ्यःतयोरपि कस्मिंश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसङ्ग्राह्यौ, सर्वस्य वस्तुजातस्य ब्रह्मजत्वाभ्युपगमात्अपि आथर्वणे उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले करणान्यनुक्रम्यन्तेएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ (मु. उ. २ । १ । ३) इतितस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत् , ; अविशेषात्यदि तावद्भौतिकानि करणानि, ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम्भवति भौतिकत्वे लिङ्गं करणानाम्अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ (छा. उ. ६ । ५ । ४) इत्येवंजातीयकम्व्यपदेशोऽपि क्वचिद्भूतानां करणानां ब्राह्मणपरिव्राजकन्यायेन नेतव्यःअथ त्वभौतिकानि करणानि, तथापि भूतोत्पत्तिक्रमो करणैर्विशेष्यतेप्रथमं करणान्युत्पद्यन्ते चरमं भूतानि, प्रथमं वा भूतान्युत्पद्यन्ते चरमं करणानीतिआथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां , तत्रोत्पत्तिक्रम उच्यतेतथा अन्यत्रापि पृथगेव भूतक्रमात्करणक्रम आम्नायते — ‘प्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत मनोऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजतइत्यादिनातस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः ॥ १५ ॥

पूर्वोक्तभूतोत्पत्तिप्रलयक्रमस्य करणसृष्ट्या बाधमाशङ्क्य परिहरति -

अन्तरेति ।