पूर्वाधिकरणेषु तत्पदार्थकारणत्वसिद्ध्यै भूतोत्पत्तिश्रुतिविरोधो निरस्तः । संप्रत्यापादसमाप्तेस्त्वम्पदार्थशुद्ध्यै जीवविषयश्रुतिविरोधो निरस्यते । तत्र करणोत्पत्तिश्चेन्न भूतोत्पत्तिक्रममन्यथयति तर्हि जीवोत्पत्तिस्तदन्यथयेदित्याशङ्क्य सैव नास्तीत्याह -
चराचरेति ।
इह जीवजनिमृतिनिमित्तवैश्वानरीयेष्ट्यादिशास्त्राणां तन्नित्यत्वशास्त्राणां चाविरोधद्वारा नित्यसिद्धप्रत्यग्ब्रह्मणि समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे शास्त्रद्वयविरोधात्तादृग्ब्रह्मसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।