ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥
भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम्; आत्मादिरुत्पत्तिः प्रलयश्चात्मान्तःइत्यप्युक्तम्सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योःबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव ।’ (क. उ. १ । ३ । ३) इन्द्रियाणि हयानाहुः’ (क. उ. १ । ३ । ४) इत्यादिलिङ्गेभ्यःतयोरपि कस्मिंश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसङ्ग्राह्यौ, सर्वस्य वस्तुजातस्य ब्रह्मजत्वाभ्युपगमात्अपि आथर्वणे उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले करणान्यनुक्रम्यन्तेएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ (मु. उ. २ । १ । ३) इतितस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत् , ; अविशेषात्यदि तावद्भौतिकानि करणानि, ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम्भवति भौतिकत्वे लिङ्गं करणानाम्अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ (छा. उ. ६ । ५ । ४) इत्येवंजातीयकम्व्यपदेशोऽपि क्वचिद्भूतानां करणानां ब्राह्मणपरिव्राजकन्यायेन नेतव्यःअथ त्वभौतिकानि करणानि, तथापि भूतोत्पत्तिक्रमो करणैर्विशेष्यतेप्रथमं करणान्युत्पद्यन्ते चरमं भूतानि, प्रथमं वा भूतान्युत्पद्यन्ते चरमं करणानीतिआथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां , तत्रोत्पत्तिक्रम उच्यतेतथा अन्यत्रापि पृथगेव भूतक्रमात्करणक्रम आम्नायते — ‘प्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत मनोऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजतइत्यादिनातस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः ॥ १५ ॥

भूतोत्पत्तिप्रलयक्रमो विषयः । स किं करणसृष्टिक्रमेण बाध्यते न वेति करणानां भौतिकत्वाभौतिकत्वाभ्यां सन्देहे पूर्वपक्षयितुं वृत्तं कीर्तयति -

भूतानामिति ।

उक्तोत्पत्तिप्रलयक्रमस्य विरोधद्योतनार्थमुक्तमर्थान्तरमनुद्रवति -

आत्मादिरिति ।

अत्र च क्रमवद्भूतोत्पत्तिप्रलयाधारे ब्रह्मणि समन्वयस्य करणसृष्टिश्रुत्या विरोधपरिहारद्वारा दृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे करणसर्गश्रुतिविरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।

देहप्रदेशातिरिक्तेद्नियाभावात्कथं यथोक्तः सन्देहः स्यादित्याशङ्क्याह -

सेन्द्रियस्येति ।

श्रुतिस्मृत्योरुक्ता प्रसिद्धिः । तत्र श्रुतिमुदाहरति -

बुद्धिं त्विति ।

‘इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिः‘ इत्याद्या स्मृतिरुदाहर्तव्या । करणानां सत्त्वेऽपि तेषामाहङ्कारिकत्वात्तदुत्पत्तिक्रमेण कुतो भूतोत्पत्त्यादिक्रमस्य विरोधाशङ्केत्याशङ्काह -

तयोरिति ।

तेषामाहङ्कारिकत्वे मानाभावाद्ब्रह्मजत्वस्यावश्यकत्वे तत्कार्येष्वेव कस्मिश्चिदन्तराले बुद्धिसेन्द्रियमनसोरुत्पत्तिलयौ ग्राह्यावित्यर्थः ।

तथापि भूतोत्पत्त्यनन्तरं तदुत्पत्त्यङ्गीकारतया भूतोत्पत्त्यादिक्रमस्याविरुद्धतेत्याशङ्क्य क्रमाकाङ्क्षायां करणोत्पत्तेः श्रुत्यन्तरसिद्धक्रमसिद्धेर्विरोधोऽस्तीत्याह -

अपि चेति ।

अन्नमयश्रुतौ करणानां भौतिकत्वे सिद्धे भूतानन्तर्यं तेषामित्याशङ्क्य ‘आपोमयः प्राणः’ इत्यत्र तद्विकारत्वाभाववदिहापि तद्विकारत्वाभावात्करणोत्पत्तिश्रुत्या क्रमवद्भूतोत्पत्त्यादिश्रुतेर्विरोधोऽस्तीत्युपसंहरति -

तस्मादिति ।

सिद्धान्तमादत्ते -

नेति ।

इन्द्रियाणामुत्पत्तिक्रमस्य भूतोत्पत्त्यादिक्रमविरुद्धविशेषासिद्धेर्न विरोधोऽस्तीत्यर्थः ।

किं भौतिकत्वं करणानामुताभौतिकत्वम् । आद्यं प्रत्याह -

यदीति ।

द्वितीयं दूषयति -

भवतीति ।

न चापोमय इतिवन्मयटो न विकारार्थता करणानां विभक्तत्वात्कार्यत्वे कारणापेक्षायामन्नमयमित्यादिश्रुतेरपेक्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वादिति भावः ।

भौतिकत्वे करणानां भूतानन्तरं तदुत्पत्तेर्न पृथक्तद्व्यपदेशः स्यादित्याशङ्क्याह -

व्यपदेशोऽपीति ।

क्वचिदित्याथर्वणं वाक्यमुक्तम् । प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि ब्रवीति -

अथ त्विति ।

अभौतिकत्वेऽपि पूर्वोत्तरत्वेन विशेषणविशेष्यत्वे मानाभावाद्भूतोत्पत्तिक्रमो न करणक्रमेण विरुध्यत इत्यर्थः ।

ननु यथा ‘समिधो यजति’ इत्यादौ पाठक्रम एवानुष्ठानक्रमे मानं तथैतस्मादित्यादिपाठक्रमेणैवादौ करणान्युत्पद्यन्ते पश्चाद्भूतानीत्यत्र मानं, नेत्याह -

आथर्वणेति ।

तत्र तेषां क्रममात्रमाम्नायोत्पत्तिरुक्तेति योजना । श्रुत्यर्थाविरुद्धोहि पाठोऽनुष्ठाने मानम् , इह तु ‘आत्मन आकाशः’ इत्यादिश्रुत्यर्थविरोधादग्निहोत्रहोमयवागूपाकवत्पाठक्रमभङ्गेन भूतानन्तरं करणोत्पत्तिरित्यर्थः ।

करणानां भूतानां चैककार्यत्वे क्रमाकाङ्क्षायां पूर्वविशिष्टस्यैवोत्तरजनकत्वात्करणप्राथम्यमित्याशङ्क्य भिन्नपरिकरत्वान्मैवमित्याह -

तथेति ।

प्रजापतिः सर्वभूतसूक्ष्मात्मकः सूत्रात्मा । स्थूलं कार्यमिदमुच्यते । तदुत्पत्तिप्राक्कालोऽग्रशब्दार्थः । अत्र प्रजापतिसृष्टिवचनाद्भूतसृष्टिप्राथम्यं, ततश्च मनआदिसृष्टिरुक्तेति करणसर्गस्य पाश्चात्यत्वमिति विवेकः ।

भूतकरणोत्पत्त्योरेवं सिद्धे क्रमे क्रमवद्भूतोत्पत्तिलयाधारे ब्रह्मणि समन्वयस्य करणोत्पत्तिश्रुत्या विरोधो नेत्युपसंहरति -

तस्मादिति ॥ १५ ॥