मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥
अस्त्यात्मा
जीवाख्यः
शरीरेन्द्रियपञ्जराध्यक्षः
कर्मफलसम्बन्धी
।
स
किं
व्योमादिवदुत्पद्यते
ब्रह्मणः
,
आहोस्विद्ब्रह्मवदेव
नोत्पद्यते
,
इति
श्रुतिविप्रतिपत्तेर्विशयः
।
कासुचिच्छ्रुतिषु
अग्निविस्फुलिङ्गादिनिदर्शनैर्जीवात्मनः
परस्माद्ब्रह्मण
उत्पत्तिराम्नायते
;
कासुचित्तु
अविकृतस्यैव
परस्य
ब्रह्मणः
कार्यप्रवेशेन
जीवभावो
विज्ञायते
,
न
च
उत्पत्तिराम्नायत
इति
।
तत्र
प्राप्तं
तावत्
—
उत्पद्यते
जीव
इति
।
कुतः
?
प्रतिज्ञानुपरोधादेव
। ‘
एकस्मिन्विदिते
सर्वमिदं
विदितम्
’
इतीयं
प्रतिज्ञा
सर्वस्य
वस्तुजातस्य
ब्रह्मप्रभवत्वे
सति
नोपरुध्येत
,
तत्त्वान्तरत्वे
तु
जीवस्य
प्रतिज्ञेयमुपरुध्येत
।
न
च
अविकृतः
परमात्मैव
जीव
इति
शक्यते
विज्ञातुम्
,
लक्षणभेदात्
—
अपहतपाप्मत्वादिधर्मको
हि
परमात्मा
,
तद्विपरीतो
हि
जीवः
।
विभागाच्चास्य
विकारत्वसिद्धिः
—
यावान्
हि
आकाशादिः
प्रविभक्तः
,
स
सर्वो
विकारः
।
तस्य
च
आकाशादेरुत्पत्तिः
समधिगता
;
जीवात्मापि
पुण्यापुण्यकर्मा
सुखदुःखयुक्
प्रतिशरीरं
प्रविभक्त
इति
,
तस्यापि
प्रपञ्चोत्पत्त्यवसरे
उत्पत्तिर्भवितुमर्हति
।
अपि
च
‘
यथाग्नेः
क्षुद्रा
विस्फुलिङ्गा
व्युच्चरन्त्येवमेवास्मादात्मनः
सर्वे
प्राणाः
’ (बृ. उ. २ । १ । २०)
इति
प्राणादेर्भोग्यजातस्य
सृष्टिं
शिष्ट्वा
‘
सर्व
एत
आत्मानो
व्युच्चरन्ति
’
इति
भोक्तॄणामात्मनां
पृथक्सृष्टिं
शास्ति
।
‘
यथा
सुदीप्तात्पावकाद्विस्फुलिङ्गाः
सहस्रशः
प्रभवन्ते
सरूपाः
।
तथाक्षराद्विविधाः
सोम्य
भावाः
प्रजायन्ते
तत्र
चैवापियन्ति
’ (मु. उ. २ । १ । १)
इति
च
जीवात्मनामुत्पत्तिप्रलयावुच्येते
,
सरूप
वचनात्
—
जीवात्मानो
हि
परमात्मना
सरूपा
भवन्ति
,
चैतन्ययोगात्
;
न
च
क्वचिदश्रवणमन्यत्र
श्रुतं
वारयितुमर्हति
,
श्रुत्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य
सर्वत्रोपसंहर्तव्यत्वात्
।
प्रवेशश्रुतिरप्येवं
सति
विकारभावापत्त्यैव
व्याख्यातव्या
—
‘
तदात्मानꣳ
स्वयमकुरुत
’ (तै. उ. २ । ७ । १)
इत्यादिवत्
।
तस्मादुत्पद्यते
जीव
इति
॥
एवं
प्राप्ते
,
ब्रूमः
—
नात्मा
जीव
उत्पद्यत
इति
।
कस्मात्
?
अश्रुतेः
;
न
ह्यस्योत्पत्तिप्रकरणे
श्रवणमस्ति
भूयःसु
प्रदेशेषु
।
ननु
क्वचिदश्रवणमन्यत्र
श्रुतं
न
वारयतीत्युक्तम्
;
सत्यमुक्तम्
;
उत्पत्तिरेव
त्वस्य
न
सम्भवतीति
वदामः
।
कस्मात्
?
नित्यत्वाच्च
ताभ्यः
—
चशब्दादजत्वादिभ्यश्च
—
नित्यत्वं
ह्यस्य
श्रुतिभ्योऽवगम्यते
,
तथा
अजत्वम्
अविकारित्वम्
अविकृतस्यैव
ब्रह्मणो
जीवात्मनावस्थानं
ब्रह्मात्मना
चेति
।
न
चैवंरूपस्योत्पत्तिरुपपद्यते
।
ताः
काः
श्रुतयः
?
‘
न
जीवो
म्रियते
’ (छा. उ. ६ । ११ । ३)
‘
स
वा
एष
महानज
आत्माऽजरोऽमरोऽमृतोऽभयो
ब्रह्म
’ (बृ. उ. ४ । ४ । २५)
‘
न
जायते
म्रियते
वा
विपश्चित्
’ (क. उ. १ । २ । १८)
‘
अजो
नित्यः
शाश्वतोऽयं
पुराणः
’ (क. उ. १ । २ । १८)
‘
तत्सृष्ट्वा
तदेवानुप्राविशत्
’ (तै. उ. २ । ६ । १)
‘
अनेन
जीवेनात्मनानुप्रविश्य
नामरूपे
व्याकरवाणि
’ (छा. उ. ६ । ३ । २)
‘
स
एष
इह
प्रविष्ट
आ
नखाग्रेभ्यः
’ (बृ. उ. १ । ४ । ७)
‘
तत्त्वमसि
’ (छा. उ. ६ । ८ । ७)
‘
अहं
ब्रह्मास्मि
’ (बृ. उ. १ । ४ । १०)
‘
अयमात्मा
ब्रह्म
सर्वानुभूः
’ (बृ. उ. २ । ५ । १९)
इत्येवमाद्या
नित्यत्ववादिन्यः
सत्यः
जीवस्योत्पत्तिं
प्रतिबध्नन्ति
।
ननु
प्रविभक्तत्वाद्विकारः
,
विकारत्वाच्चोत्पद्यते
—
इत्युक्तम्
;
अत्रोच्यते
—
नास्य
प्रविभागः
स्वतोऽस्ति
,
‘
एको
देवः
सर्वभूतेषु
गूढः
सर्वव्यापी
सर्वभूतान्तरात्मा
’ (श्वे. उ. ६ । ११)
इति
श्रुतेः
।
बुद्ध्याद्यु
पाधिनिमित्तं
तु
अस्य
प्रविभागप्रतिभानम्
,
आकाशस्येव
घटादिसम्बन्धनिमित्तम्
।
तथा
च
शास्त्रम्
—
‘
स
वा
अयमात्मा
ब्रह्म
विज्ञानमयो
मनोमयः
प्राणमयश्चक्षुर्मयः
श्रोत्रमयः
’ (बृ. उ. ४ । ४ । ५)
इत्येवमादि
ब्रह्मण
एवाविकृतस्य
सतोऽस्यैकस्यानेकबुद्ध्यादिमयत्वं
दर्शयति
।
तन्मयत्वं
च
अस्य
तद्विविक्तस्वरूपानभिव्यक्त्या
तदुपरक्तस्वरूपत्वम्
—
स्त्रीमयो
जाल्म
इत्यादिवत्
—
द्रष्टव्यम्
।
यदपि
क्वचिदस्योत्पत्तिप्रलयश्रवणम्
,
तदप्यत
एवोपाधिसम्बन्धान्नेतव्यम्
—
उपाध्युत्पत्त्या
अस्योत्पत्तिः
,
तत्प्रलयेन
च
प्रलय
इति
।
तथा
च
दर्शयति
—
‘
प्रज्ञानघन
एवैतेभ्यो
भूतेभ्यः
समुत्थाय
तान्येवानु
विनश्यति
न
प्रेत्य
संज्ञास्ति
’ (बृ. उ. ४ । ५ । १३)
इति
;
तथो
पाधिप्रलय
एवायम्
,
नात्मविलयः
—
इत्येतदपि
— ‘
अत्रैव
मा
भगवान्मोहान्तमापीपद
न्न
वा
अहमिमं
विजानामि
न
प्रेत्य
संज्ञास्ति
’ —
इति
प्रश्नपूर्वकं
प्रतिपादयति
—
‘
न
वा
अरेऽहं
मोहं
ब्रवीम्यविनाशी
वा
अरेऽयमात्मानुच्छित्तिधर्मा
मात्रा
ऽसंसर्गस्त्वस्य
भवति
’ (बृ. उ. ४ । ५ । १४)
—
इति
।
प्रतिज्ञानुपरोधोऽप्यविकृतस्यैव
ब्रह्मणो
जीवभावाभ्युपगमात्
;
लक्षणभेदोऽप्यनयोरुपाधिनिमित्त
एव
,
‘
अत
ऊर्ध्वं
विमोक्षायैव
ब्रूहि
’ (बृ. उ. ४ । ३ । १५)
इति
च
प्रकृतस्यैव
विज्ञानमयस्यात्मनः
सर्वसंसारधर्मप्रत्याख्यानेन
परमात्मभावप्रतिपादनात्
।
तस्मात्
नैवात्मोत्पद्यते
प्रविलीयते
वेति
॥ १७ ॥
नात्मेति
;
देहोत्पत्तिनाशयोरात्मोत्पत्तिनाशौ निरस्य कल्पाद्यन्तयोर्जन्मनाशौ तस्य निरस्यति -
नात्मेति ।