ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
ज्ञोऽत एव ॥ १८ ॥
किं काणभुजानामिवागन्तुकचैतन्यः, स्वतोऽचेतनः, आहोस्वित्साङ्ख्यानामिव नित्यचैतन्यस्वरूप एव, इति वादिविप्रतिपत्तेः संशयःकिं तावत्प्राप्तम् ? आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजम् , अग्निघटसंयोगजरोहितादिगुणवदिति प्राप्तम्नित्यचैतन्यत्वे हि सुप्तमूर्छितग्रहाविष्टानामपि चैतन्यं स्यात्ते पृष्टाः सन्तः किञ्चिद्वयमचेतयामहिइति जल्पन्ति; स्वस्थाश्च चेतयमाना दृश्यन्तेअतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति
एवं प्राप्ते, अभिधीयतेज्ञः नित्यचैतन्योऽयमात्माअत एवयस्मादेव नोत्पद्यते, परमेव ब्रह्म अविकृतमुपाधिसम्पर्काज्जीवभावेनावतिष्ठतेपरस्य हि ब्रह्मणश्चैतन्यस्वरूपत्वमाम्नातम्विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इत्यादिषु श्रुतिषुतदेव चेत्परं ब्रह्म जीवः, तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यतेविज्ञानमयप्रक्रियायां श्रुतयो भवन्तिअसुप्तः सुप्तानभिचाकशीति’ (बृ. उ. ४ । ३ । ११) अत्रायं पुरुषः स्वयंज्योतिर्भवति’ (बृ. उ. ४ । ३ । ९) इति, हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । ३०) इत्येवंरूपाःअथ यो वेदेदं जिघ्राणीति आत्मा’ (छा. उ. ८ । १२ । ४) इति सर्वैः करणद्वारैःइदं वेद, इदं वेदइति विज्ञानेनानुसन्धानात् तद्रूपत्वसिद्धिःनित्यचैतन्यस्वरूपत्वे घ्राणाद्यानर्थक्यमिति चेत् , , गन्धादिविषयविशेषपरिच्छेदार्थत्वात्तथा हि दर्शयति — ‘गन्धाय घ्राणम्इत्यादियत्तु सुप्तादयो चेतयन्त इति, तस्य श्रुत्यैव परिहारोऽभिहितः , सुषुप्तं प्रकृत्ययद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति; हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्; तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ (बृ. उ. ४ । ३ । २३) इत्यादिनाएतदुक्तं भवतिविषयाभावादियमचेतयमानता, चैतन्याभावादितियथा वियदाश्रयस्य प्रकाशस्य प्रकाश्याभावादनभिव्यक्तिः, स्वरूपाभावात्तद्वत्वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवतितस्मान्नित्यचैतन्यस्वरूप एव आत्मेति निश्चिनुमः ॥ १८ ॥

आत्मनो नित्यत्वमुक्त्वा तदनुत्पत्तिहेतोः स्वप्रकाशत्वमाह -

ज्ञ इति ।

अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति तत्स्वप्रकाशता । न चैवं गतार्थत्वमनुत्पन्नस्यापि जीवस्यानित्यज्ञानत्वश्रुत्या ब्रह्मान्यत्वशङ्कायां ब्रह्मैक्ययोग्यत्वायात्र जीवस्य स्वप्रकाशतोक्तेरिति भावः ।