अधिकरणस्य विषयसंशयौ दर्शयति -
इदानीमिति ।
किमणुपरिमाणो जीव आहो महापरिमाण इत्येवं विप्रतिपत्तेः सन्दिह्यते ।
मध्यमपरिमाणत्वं निरस्तमेवात्र तथाणुत्वं निरस्तप्रायमिति वक्तुमतीताधिकरणारम्भमाक्षिपति -
ननु चेति ।
तथापि जीवस्यानन्त्यनिरूपणार्थमधिकरणमित्याशङ्क्याह -
अतश्चेति ।
तुल्यलक्षणत्वादित्यर्थः ।
तथापि विचारारम्भस्य किं जातं, तदाह -
परस्येति ।
तथापि जीवस्य तन्नोक्तं, तत्राह -
तत्रेति ।
पराभिन्नतया तद्वदानन्त्ये सतीति यावत् ।
आरम्भं समाधत्ते -
उच्यत इति ।
यदुक्तं जीवस्य नित्यत्वादि, तदङ्गीकरोति -
सत्यमिति ।
तर्हि परममहत्त्वमपि तस्य सिद्धमेव, किमनया चिन्तयेत्याशङ्क्याह -
उत्क्रान्तीति ।
न केवलं श्रुतार्थापत्तिसिद्धमात्मनोऽणुत्वं किन्तु श्रौतमपीत्याह -
स्वशब्देनेति ।
आत्माणुत्वश्रुतिकलापस्य तदानन्त्यश्रुतिजातस्य वाऽनाकुलत्वमन्योन्यमविरुद्धत्वं तत्प्रतिपादनेनापरिच्छिन्ने ब्रह्मणि समन्वयसाधकमधिकरणमर्थवदित्युपसंहरति -
तस्येति ।
एतेन पादादिसङ्गतिरुक्ता । पूर्वपक्षे चात्माणुत्वमहत्त्वश्रुत्योर्विरुद्धत्वेनाप्रामाण्यादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तयोरविरुद्धत्वात्प्रामाण्यात्तत्सिद्धिः ।
अधिकरणारम्भमेवमुक्त्वा सूत्रं व्याकुर्वन्पूर्वपक्षयति -
तत्रेति ।
उक्तं हेतुं विवृणोति -
उत्कान्तीति ।
स पुरुषो मुमूर्षुरारब्धकर्मावसाने यदाऽस्मादभिमानतो गृहीतादिति यावत् । सहैवेत्यत्र तदेति वक्तव्यम् । एतच्छब्दो वागादिविषयः । तस्माल्लोकादित्यागमनापादानत्वेन चन्द्रलोको गृह्यते । तत्र भोक्तव्यकर्मक्षयानन्तर्यं पुनरित्युच्यते । अस्मै लोकायेति । एतं लोकं प्रतीत्यर्थः ।
कर्मशब्देन तदनुष्ठानं लक्ष्यते हेतुमनूद्य तत्फलमाह -
आसामिति ।
ननु जीवस्योत्क्रान्तिगत्यागतिभिश्चलनमेव गम्यते न परिच्छेदः, तत्राह -
नहीति ।
सर्वगतस्य स्वाश्रयसंयोगविभागहेतुश्चलनम् । नभोवच्चलनं न चेत्तथापि कुतोऽणुत्वं परिशेषादित्याह -
सतीति ॥ १९ ॥