ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
स्वात्मना चोत्तरयोः ॥ २० ॥
उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेतउत्तरे तु गत्यागती नाचलतः सम्भवतःस्वात्मना हि तयोः सम्बन्धो भवति, गमेः कर्तृस्थक्रियात्वात्अमध्यमपरिमाणस्य गत्यागती अणुत्वे एव सम्भवतःसत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते हि अनपसृप्तस्य देहाद्गत्यागती स्याताम्देहप्रदेशानां उत्क्रान्तावपादानत्ववचनात्चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इति एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति’ (बृ. उ. ४ । ४ । १) शुक्रमादाय पुनरैति स्थानम्’ (बृ. उ. ४ । ३ । ११) इति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवतःतस्मादप्यस्याणुत्वसिद्धिः ॥ २० ॥

नात्मनो देहादपसर्पणमुत्क्रमणं किन्तु स्वाम्यनिवृत्तिमात्रम् । मन एव तूत्क्रम्य भोगदेशं गच्छतीत्येके । तत्राह -

स्वात्मनेति ।