ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
स्वशब्दोन्मानाभ्यां च ॥ २२ ॥
इतश्चाणुरात्मा, यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयतेएषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश’ (मु. उ. ३ । १ । ९) इतिप्राणसम्बन्धाच्च जीव एवायमणुरभिहित इति गम्यतेतथोन्मानमपि जीवस्याणिमानं गमयतिबालाग्रशतभागस्य शतधा कल्पितस्य भागो जीवः विज्ञेयः’ (श्वे. उ. ५ । ९) इति; आराग्रमात्रो ह्यवरोऽपि दृष्टः’ (श्वे. उ. ५ । ८) इति उन्मानान्तरम् ॥ २२ ॥

गत्यादिश्रुत्यनुपपत्तेरनुमानस्य च श्रुत्यन्तरविरोधनिरासेनाणुत्वसाधकत्वमुक्तम् । इदानीं तत्रैव श्रुतिमाह -

स्वशब्देति ।