चोद्यं विवृणोति -
अथापीति ।
उक्तहेतुभिरात्मनोऽणुत्वे दृष्टेपीति यावत् ।
अणुत्वश्रुतेरुक्तत्वादसिद्धो हेतुरित्याशङ्क्याह -
अणुत्वेति ।
परिमाणान्तरश्रवणं विवृणोति -
स वा इति ।
परिहारमवतार्य व्याचष्टे -
नेति ।
महापरिमाणश्रवणं परमात्मविषयं तत्प्रकरणस्थत्वादित्युक्तं साधयति -
परस्येति ।
कथमस्य परविषयतेत्याशङ्क्य - प्राधान्येन तस्य प्रतिपाद्यत्वादुत्सर्गतस्तथेत्याह -
परस्यैवेति ।
न केवलमौत्सर्गिकं परप्रकरणत्वम् , आरभ्याधीतिबलादपि तद्धीरित्याह -
विरज इति ।
परिमाणान्तरश्रुतेः श्रुत्या जीवगामित्वे सिद्धे प्रकरणस्य दौर्बल्यान्न परविषयतेति शङ्कते -
नन्विति ।
यथा वामदेवस्य गर्भस्थस्यैव ‘अहं मनुरभवं सूर्यश्च’ इति शास्त्रदृष्ट्या व्यपदेशो दृष्टस्तथा जीवस्य परमार्थाभेददृष्ट्या महत्त्वनिर्देशः, तथा च स्वतोऽणुत्वमविरुद्धमित्याह -
शास्त्रेति ।
अणोर्जीवस्य ब्रह्मणो भिन्नाभिन्नत्वेनात्यन्तभेदाभावात्तद्भेदस्य चाध्यक्षत्वादभेद एव शास्त्रीयस्तदपेक्षया च जीवमहत्त्वोक्तिरिति भावः ।
परिमाणान्तरश्रुतेरन्य विषयत्वाज्जीवस्याणुत्वं युक्तमित्युपसंहरति -
तस्मादिति ॥ २१ ॥