ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥
अथापि स्यात्नाणुरयमात्माकस्मात् ? अतच्छ्रुतेः; अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः वा एष महानज आत्मा, योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ४ । २२) आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्येवंजातीयका हि श्रुतिरात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत् , नैष दोषःकस्मात् ? इतराधिकारात्परस्य हि आत्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः, परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् , ‘विरजः पर आकाशात्इत्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात्ननु योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ४ । २२) इति शारीर एव महत्त्वसम्बन्धित्वेन प्रतिनिर्दिश्यतेशास्त्रदृष्ट्या तु एष निर्देशो वामदेववद्द्रष्टव्यःतस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य जीवस्याणुत्वं विरुध्यते ॥ २१ ॥

सर्वगतत्वश्रुतिविरोधमाशङ्क्य विषयान्तरोक्त्या प्रत्याह -

नाणुरिति ।