मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥
अथापि
स्यात्
—
नाणुरयमात्मा
।
कस्मात्
?
अतच्छ्रुतेः
;
अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः
।
‘
स
वा
एष
महानज
आत्मा
,
योऽयं
विज्ञानमयः
प्राणेषु
’ (बृ. उ. ४ । ४ । २२)
‘
आकाशवत्सर्वगतश्च
नित्यः
’ (शत. ब्रा. १० । ६ । ३ । २)
‘
सत्यं
ज्ञानमनन्तं
ब्रह्म
’ (तै. उ. २ । १ । १)
इत्येवंजातीयका
हि
श्रुतिरात्मनोऽणुत्वे
विप्रतिषिध्येतेति
चेत्
,
नैष
दोषः
।
कस्मात्
?
इतराधिकारात्
—
परस्य
हि
आत्मनः
प्रक्रियायामेषा
परिमाणान्तरश्रुतिः
,
परस्यैवात्मनः
प्राधान्येन
वेदान्तेषु
वेदितव्यत्वेन
प्रकृतत्वात्
, ‘
विरजः
पर
आकाशात्
’
इत्येवंविधाच्च
परस्यैवात्मनस्तत्र
तत्र
विशेषाधिकारात्
।
ननु
‘
योऽयं
विज्ञानमयः
प्राणेषु
’ (बृ. उ. ४ । ४ । २२)
इति
शारीर
एव
महत्त्वसम्बन्धित्वेन
प्रतिनिर्दिश्यते
—
शास्त्र
दृष्ट्या
तु
एष
निर्देशो
वामदेववद्द्रष्टव्यः
।
तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य
न
जीवस्याणुत्वं
विरुध्यते
॥ २१ ॥
नाणुरिति
;
सर्वगतत्वश्रुतिविरोधमाशङ्क्य विषयान्तरोक्त्या प्रत्याह -
नाणुरिति ।