ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अविरोधश्चन्दनवत् ॥ २३ ॥
यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसम्बद्धोऽपि सन् सकलदेहव्यापिनमाह्लादं करोति, एवमात्मापि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं करिष्यतित्वक्सम्बन्धाच्चास्य सकलशरीरगता वेदना विरुध्यतेत्वगात्मनोर्हि सम्बन्धः कृत्स्नायां त्वचि वर्ततेत्वक्च कृत्स्नशरीरव्यापिनीति ॥ २३ ॥

परिच्छिन्नस्यापि स्वभाववशाद्व्यापि कार्यं स्यादित्यन्यथोपपत्तिं दर्शयन्दृष्टान्तं व्याचष्टे -

यथेति ।

दार्ष्टान्तिकमाह -

एवमिति ।

देहव्यापकत्वमात्मसम्बन्धस्य सर्वाङ्गीणशैत्यज्ञाने शक्तत्वाद्युक्तं प्रादेशिकस्यात्मनो व्यापि कार्यमित्युक्तेऽर्थे युक्तिं ब्रुवन्नवशिष्टं सूत्रभागं व्याचष्टे -

त्वगिति ।

प्रादेशिकस्यात्मनः सम्बन्धः समस्तां त्वचं कथं व्याप्नुयात् , तत्राह -

त्वगात्मनोरिति ।

सम्बन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वात्तद्व्याप्तिरित्यर्थः ।

तथापि कथं त्वचः सर्वाङ्गीणशैत्यसङ्गतिः, तत्राह -

त्वक्चेति ।

अर्थापत्तेरन्यथाऽप्युपपत्तिं दृष्टान्तेनोक्तामुपसंहर्तुमितिशब्दः ॥ २३ ॥