ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
नन्वणुत्वे सति एकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यतेदृश्यते जाह्नवीह्रदनिमग्नानां सर्वाङ्गशैत्योपलब्धिः, निदाघसमये सकलशरीरपरितापोपलब्धिरितिअत उत्तरं पठति

सूत्रान्तरार्थं शङ्कते -

नन्विति ।

उपलब्धिरपि न सर्वदेहगता किन्तु प्रदेशगतेत्याशङ्क्याह -

दृश्यते चेति ।

देहव्यापिकार्यान्यथानुपपत्त्या जीवो नाणुरिति चोद्यं सूत्रेण प्रत्याह -

अत इति ।