मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥
अत्राह
—
यदुक्तमविरोधश्चन्दनवदिति
,
तदयुक्तम्
,
दृष्टान्तदार्ष्टान्तिकयोरतुल्यत्वात्
।
सिद्धे
हि
आत्मनो
देहैकदेशस्थत्वे
चन्दनदृष्टान्तो
भवति
,
प्रत्यक्षं
तु
चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं
सकलदेहाह्लादनं
च
।
आत्मनः
पुनः
सकलदेहोपलब्धिमात्रं
प्रत्यक्षम्
,
नैकदेशवर्तित्वम्
।
अनुमेयं
तु
तदिति
यदप्युच्येत
—
न
च
अत्रा
नुमानं
सम्भवति
—
किमात्मनः
सकलशरीरगता
वेदना
त्वगिन्द्रियस्येव
सकलदेहव्यापिनः
सतः
,
किं
वा
विभोर्नभस
इव
,
आहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्य
इति
संशयानतिवृत्तेरिति
।
अत्रोच्यते
—
नायं
दोषः
।
कस्मात्
?
अभ्युपगमात्
।
अभ्युपगम्यते
हि
आत्मनोऽपि
चन्दनस्येव
देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम्
।
कथमिति
,
उच्यते
—
हृदि
ह्येष
आत्मा
पठ्यते
वेदान्तेषु
,
‘
हृदि
ह्येष
आत्मा
’ (प्र. उ. ३ । ६)
‘
स
वा
एष
आत्मा
हृदि
’ (छा. उ. ८ । ३ । ३)
‘
कतम
आत्मेति
योऽयं
विज्ञानमयः
प्राणेषु
हृद्यन्तर्ज्योतिः
पुरुषः
’ (बृ. उ. ४ । ३ । ७)
इत्याद्युपदेशेभ्यः
।
तस्माद्दृष्टान्तदार्ष्टान्तिकयोरवैषम्यात्
युक्तमेवैतत्
— ‘
अविरोधश्चन्दनवत्
’
इति
॥ २४ ॥
अवस्थितीति
;
वैषम्यं शङ्कित्वा प्रत्याह -
अवस्थितीति ।