ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
पृथगुपदेशात् ॥ २८ ॥
प्रज्ञया शरीरं समारुह्य’ (कौ. उ. ३ । ६) इति आत्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशात् चैतन्यगुणेनैव अस्य शरीरव्यापिता गम्यतेतदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २ । १ । १७) इति कर्तुः शारीरात्पृथग्विज्ञानस्योपदेशः एतमेवाभिप्रायमुपोद्बलयतितस्मादणुरात्मेति ॥ २८ ॥

चैतन्यगुणेनात्मनो देहव्याप्तौ हेत्वन्तरमाह -

पृथगिति ।