ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥
नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीयाकस्मात् ? यावदात्मभावित्वाद्बुद्धिसंयोगस्ययावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं निवर्तते, तावदस्य बुद्ध्या संयोगो शाम्यतियावदेव चायं बुद्ध्युपाधिसम्बन्धः, तावदेवास्य जीवत्वं संसारित्वं परमार्थतस्तु जीवो नाम बुद्ध्युपाधिपरिकल्पितस्वरूपव्यतिरेकेणास्ति हि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यतेनान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’ (बृ. उ. ३ । ७ । २३) नान्यदतोऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृ’ (छा. उ. ३ । ८ । ११) तत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) इत्यादिश्रुतिशतेभ्यःकथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति ? तद्दर्शनादित्याहतथा हि शास्त्रं दर्शयतियोऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्यादितत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति, प्रदेशान्तरेविज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयःइति विज्ञानमयस्य मनआदिभिः सह पाठात्बुद्धिमयत्वं तद्गुणसारत्वमेवाभिप्रेयतेयथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते, तद्वत् । ‘ समानः सन्नुभौ लोकावनुसञ्चरतिइति लोकान्तरगमनेऽप्यवियोगं बुद्ध्या दर्शयतिकेन समानः ? — तयैव बुद्ध्येति गम्यते, सन्निधानात्तच्च दर्शयतिध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इतिएतदुक्तं भवतिनायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव, चलन्त्यां बुद्धौ चलतीवेतिअपि मिथ्याज्ञानपुरःसरोऽयमात्मनो बुद्ध्युपाधिसम्बन्धः मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधः, तावदयं बुद्ध्युपाधिसम्बन्धो शाम्यतिदर्शयति वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ॥ ३० ॥

न दोष इति प्रतिज्ञात्वेन योजयति -

नेयमिति ।

प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

बुद्धियोगस्यानाशित्वे तत्त्वधीवैयर्थ्यं वा तस्यान्तवत्त्वेनागन्तुकतया संसारस्यादिमत्त्वादकृतागमादिप्रसङ्गो वा तदुभयमपि नास्तीति हेतुं विवृणोति -

यावदिति ।

तदेव स्पष्टयति -

यावदस्येति ।

संसारनिवृत्त्युत्तरकालमपि जीवस्वरूपनिर्वाहकत्वेन बुद्धियोगोऽभ्युपगन्तव्य इत्याशङ्क्याह -

यावदेव चेति ।

जीवस्य वस्तुत्वान्नोपाधियोगापेक्षेत्याशङ्क्य वाच्यस्य लक्ष्यस्य वा वस्तुत्वमिति विकल्प्याद्यं दूषयति -

परमार्थेति ।

द्वितीयं निराह -

नहीति ।

लक्ष्यस्य ब्रह्माव्यतिरेके वेदान्तार्थनिरूपणायामित्यत्र सूचितं हेतुमाह -

नेत्यादिना ।

सूत्रावयवमाकाङ्क्षाद्वारा निक्षिपति -

कथमिति ।

तस्यार्थमाह -

तथाहीति ।

‘बुद्धिं तु सारथिं विद्धी’ त्यादि ग्रहीतुमादिपदम् । कथमत्र यावदात्मभावित्वधीरित्याशङ्क्य तदर्थ विज्ञानमयपदार्थमाह -

तत्रेति ।

विज्ञानस्य ब्रह्मत्वात्तन्मयत्वं तत्कार्यत्वं तदात्मत्वं वेत्याशङ्क्याह -

प्रदेशान्तर इति ।

विज्ञानं बुद्धिरस्तु, तथापि कथमात्मनस्तद्विकारत्वं मयटो विकारार्थत्वात्तत्राह -

बुद्धीति ।

कथं विकारार्थस्य मयटोऽर्थान्तरं शङ्क्यते, तत्राह -

यथेति ।

इह लोके बुद्ध्यवियोगेऽप्यात्मनो लोकान्तरसञ्चारे तद्वियोगः स्यादित्याशङ्क्याह -

स समान इति ।

नात्र बुद्ध्या सहावियोगो भातीत्याशङ्क्याकाङ्क्षाद्वारा समानपदं पूरयति -

केनेति ।

येन केनापि समानत्वे कुतो विशेषोक्तिः, तत्राह -

संनिधानादिति ।

‘योऽयं विज्ञानमयः प्राणेषु’ इत्यत्रेति शेषः ।

परिच्छिन्नस्यैव गतेरात्मनस्तदभावात्कथमुभयलोकसञ्चारित्वं, तत्राह -

तच्चेति ।

बुद्धिवदात्मनो ध्यानादियोगित्वमत्र भातीवशब्दस्योपमार्थत्वादित्याशङ्क्याह -

एतदिति ।

इवशब्दस्याभासार्थत्वान्नोपमार्थतेति भावः ।

न केवलमागमाद्बुद्धिसम्बन्धस्य यावत्संसार्यात्मभावित्वं किन्तु युक्तेरपीत्याह -

अपिचेति ।

मिथ्याज्ञानस्य सत्येव संसारिणि कर्मणा निवृत्तेस्तन्निमित्तबुद्धिसम्बन्धस्यापि तत्सिद्धेर्न यावदात्मभावितेत्याशङ्क्याह -

नचेति ।

सम्यग्ज्ञानादेव मिथ्याज्ञाननिवृत्तिरित्यत्र मानमाह -

दर्शयतीति ।

आदित्यवर्णं प्रकाशरूपं तमसः परस्तादविद्यासंस्पर्शशून्यमित्यर्थः ॥ ३० ॥