न दोष इति प्रतिज्ञात्वेन योजयति -
नेयमिति ।
प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
बुद्धियोगस्यानाशित्वे तत्त्वधीवैयर्थ्यं वा तस्यान्तवत्त्वेनागन्तुकतया संसारस्यादिमत्त्वादकृतागमादिप्रसङ्गो वा तदुभयमपि नास्तीति हेतुं विवृणोति -
यावदिति ।
तदेव स्पष्टयति -
यावदस्येति ।
संसारनिवृत्त्युत्तरकालमपि जीवस्वरूपनिर्वाहकत्वेन बुद्धियोगोऽभ्युपगन्तव्य इत्याशङ्क्याह -
यावदेव चेति ।
जीवस्य वस्तुत्वान्नोपाधियोगापेक्षेत्याशङ्क्य वाच्यस्य लक्ष्यस्य वा वस्तुत्वमिति विकल्प्याद्यं दूषयति -
परमार्थेति ।
द्वितीयं निराह -
नहीति ।
लक्ष्यस्य ब्रह्माव्यतिरेके वेदान्तार्थनिरूपणायामित्यत्र सूचितं हेतुमाह -
नेत्यादिना ।
सूत्रावयवमाकाङ्क्षाद्वारा निक्षिपति -
कथमिति ।
तस्यार्थमाह -
तथाहीति ।
‘बुद्धिं तु सारथिं विद्धी’ त्यादि ग्रहीतुमादिपदम् । कथमत्र यावदात्मभावित्वधीरित्याशङ्क्य तदर्थ विज्ञानमयपदार्थमाह -
तत्रेति ।
विज्ञानस्य ब्रह्मत्वात्तन्मयत्वं तत्कार्यत्वं तदात्मत्वं वेत्याशङ्क्याह -
प्रदेशान्तर इति ।
विज्ञानं बुद्धिरस्तु, तथापि कथमात्मनस्तद्विकारत्वं मयटो विकारार्थत्वात्तत्राह -
बुद्धीति ।
कथं विकारार्थस्य मयटोऽर्थान्तरं शङ्क्यते, तत्राह -
यथेति ।
इह लोके बुद्ध्यवियोगेऽप्यात्मनो लोकान्तरसञ्चारे तद्वियोगः स्यादित्याशङ्क्याह -
स समान इति ।
नात्र बुद्ध्या सहावियोगो भातीत्याशङ्क्याकाङ्क्षाद्वारा समानपदं पूरयति -
केनेति ।
येन केनापि समानत्वे कुतो विशेषोक्तिः, तत्राह -
संनिधानादिति ।
‘योऽयं विज्ञानमयः प्राणेषु’ इत्यत्रेति शेषः ।
परिच्छिन्नस्यैव गतेरात्मनस्तदभावात्कथमुभयलोकसञ्चारित्वं, तत्राह -
तच्चेति ।
बुद्धिवदात्मनो ध्यानादियोगित्वमत्र भातीवशब्दस्योपमार्थत्वादित्याशङ्क्याह -
एतदिति ।
इवशब्दस्याभासार्थत्वान्नोपमार्थतेति भावः ।
न केवलमागमाद्बुद्धिसम्बन्धस्य यावत्संसार्यात्मभावित्वं किन्तु युक्तेरपीत्याह -
अपिचेति ।
मिथ्याज्ञानस्य सत्येव संसारिणि कर्मणा निवृत्तेस्तन्निमित्तबुद्धिसम्बन्धस्यापि तत्सिद्धेर्न यावदात्मभावितेत्याशङ्क्याह -
नचेति ।
सम्यग्ज्ञानादेव मिथ्याज्ञाननिवृत्तिरित्यत्र मानमाह -
दर्शयतीति ।
आदित्यवर्णं प्रकाशरूपं तमसः परस्तादविद्यासंस्पर्शशून्यमित्यर्थः ॥ ३० ॥