ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१ ॥
यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति अविद्यमानान्युत्पद्यन्ते, षण्डादीनामपि तदुत्पत्तिप्रसङ्गात्एवमयमपि बुद्धिसम्बन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवतिएवं हि एतद्युज्यते हि आकस्मिकी कस्यचिदुत्पत्तिः सम्भवति, अतिप्रसङ्गात्दर्शयति सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम्सति सम्पद्य विदुः सति सम्पद्यामह इति ।’ (छा. उ. ६ । ९ । २) इह व्याघ्रो वा सिꣳहो वा’ (छा. उ. ६ । ९ । ३) इत्यादिनातस्मात्सिद्धमेतत्यावदात्मभावी बुद्ध्याद्युपाधिसम्बन्ध इति ॥ ३१ ॥

तत्र दृष्टान्तं व्याचष्टे -

यथेति ।

पुंस्त्वं पुरुषस्य प्रजोत्पादनसामर्थ्यम् । आदिशब्देन स्रियाः स्त्रीत्वं बीजस्याङ्कुरजनकत्वमित्यादि गृहीतम् । बाल्यादिष्वित्यादिपदेनावस्थाविशेषा गृह्यन्ते । यौवनादिष्वित्यत्रापि, स एवादिशब्दार्थः ।

कस्मादविद्यमानवदिष्टानामाविर्भावः, अविद्यमानानामेव पुनरुत्पत्तिः किं न स्यात् , तत्राह -

नेति ।

तैलकलुषितबीजादिग्रहार्थमादिपदम् । एतेन तुशब्दो व्याख्यातः ।

'अस्य सत' इति दार्ष्टान्तिकं व्याचष्टे -

एवमिति ।

अभिव्यक्तियोगादिति व्याकरोति -

एवं हीति ।

तदेव व्यतिरेकतः स्फोरयति -

नहीति ।

कारणं विनाऽपि कार्यं स्यादित्यतिप्रसङ्गः । स्वापे बीजात्मना सतो बुद्धियोगस्य प्रबोधे व्यक्तिरित्यत्र मानमाह -

दर्शयतीति ।

न विदुरित्यविद्यात्मकबीजसत्त्वोक्तिः । तत्कृतत्वं स्वापादुत्थानस्य कथयति -

त इति ।

पूर्वबोधः सप्तम्यर्थः ।

स्वापे लये च बुद्धियोगस्य बीजात्मनाऽवस्थाने फलितमाह -

तस्मादिति ॥ ३१ ॥