मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥
तच्चात्मन
उपाधिभूतम्
—
अन्तःकरणं
मनो
बुद्धिर्विज्ञानं
चित्तमिति
च
अनेकधा
तत्र
तत्राभिलप्यते
।
क्वचिच्च
वृत्तिविभागेन
—
संशयादिवृत्तिकं
मन
इत्युच्यते
,
निश्चयादिवृत्तिकं
बुद्धिरिति
।
तच्चै
वंभूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम्
,
अन्यथा
ह्यनभ्युपगम्यमाने
तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः
स्यात्
—
आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां
सन्निधाने
सति
नित्यमेवोपलब्धिः
प्रसज्येत
।
अथ
सत्यपि
हेतुसमवधाने
फलाभावः
,
ततो
नित्यमेवानुपलब्धिः
प्रसज्येत
।
न
चैवं
दृश्यते
।
अथवा
अन्यतरस्यात्मन
इन्द्रियस्य
वा
शक्तिप्रतिबन्धोऽभ्युपगन्तव्यः
।
न
च
आत्मनः
शक्तिप्रतिबन्धः
सम्भवति
,
अविक्रियत्वात्
।
नापि
इन्द्रियस्य
।
न
हि
तस्य
पूर्वोत्तरयोः
क्षणयोरप्रतिबद्धशक्तिकस्य
सतोऽकस्माच्छक्तिः
प्रतिबध्येत
।
तस्मात्
यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी
भवतः
,
तन्मनः
।
तथा
च
श्रुतिः
—
‘
अन्यत्रमना
अभूवं
नादर्शमन्यत्रमना
अभूवं
नाश्रौषम्
’ (बृ. उ. १ । ५ । ३)
इति
,
‘
मनसा
ह्येव
पश्यति
मनसा
शृणोति
’ (बृ. उ. १ । ५ । ३)
इति
च
;
कामादयश्चा
स्य
वृत्तय
इति
दर्शयति
—
‘
कामः
सङ्कल्पो
विचिकित्सा
श्रद्धाऽश्रद्धा
धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं
मन
एव
’ (बृ. उ. १ । ५ । ३)
इति
।
तस्माद्
युक्तमेतत्
—
तद्गुणसारत्वात्तद्व्यपदेश
इति
॥ ३२ ॥
नित्येति
;
बुद्धिसद्भावे मानमाह -
नित्येति ।