ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
विहारोपदेशात् ॥ ३४ ॥
इतश्च जीवस्य कर्तृत्वम् , यज्जीवप्रक्रियायां सन्ध्ये स्थाने विहारमुपदिशति ईयतेऽमृतो यत्र कामम्’ (बृ. उ. ४ । ३ । १२) इति, स्वे शरीरे यथाकामं परिवर्तते’ (बृ. उ. २ । १ । १८) इति ॥ ३४ ॥

विहारो विहरणं सञ्चारस्तदुपदेशानुपपत्त्यापि जीवस्य कर्तृतेत्याह -

विहारेति ।